________________
( ९४ ) द्वितीयोत्पत्तिः तृतीयक्षण द्वित्वत्व निर्विकल्पकं चतुर्थक्षणेऽपेक्षा. बुद्धिनाशो द्वित्वप्रत्यक्षं च पञ्च रक्षणे द्वित्वनाशो द्वित्वविशिष्ट प्रत्यक्षञ्च, एवं त्रित्वादरेप्युत्पादविनाशौ।
मानव्यवहारासाधारणकारणं परिमाणं नवद्रव्यवृत्ति, महद्दीर्घाणुह्रस्वभेदेन चतुर्विधम्, तदपि प्रत्येकं परममध्यमभेदेन द्विविधंद्विविधम्, तत्र परममहद्दो आकाशादिद्रव्यचतुष्टयत्तिन परमाणुह्रस्वे परमाणुमनोवत्तिनी, एनचतुष्टयमपि नित्यगतत्वा. नित्यम्, मध्यममहद्दी व्यणुकाद्यवयविवत्तिनी, मध्यमाणुह्रस्वे द्वयणुकत्तिनी, एतच्चतुष्टयमनित्य मेवाश्रयनाशन्नश्यति । सङ्ख्या जन्यं परिमाणजन्यं, प्रचयजन्यत्वंच, तत्र द्वयुणुकपरिमाणं परमाणुद्वित्वजं, व्यणुकपरिमाणं द्वयणुकत्रित्वजं, घटादिपरिमाणं कपाल. परिमाणजं, तूलकादिपरिमाणं प्रचयजन्यमिति । पृथग् व्यवहारा. साधारणकारणं पृथक्त्व नवद्रव्यवृत्ति, एकपृथक्त्वादि परार्ध. पृथक्त्वपर्यन्तम्, संख्यावन्नित्यत्वादिकमस्य ज्ञेयम् । संयुक्तव्यवः हारासाधारणकारणं संयोगः नवद्रव्यवृत्तिः, सचैककर्मजन्योभय. कर्मजन्यसंयोगजसंयोगभेदात् त्रिविधः, तत्राद्यः, पक्षिक्रियया पक्षितरुसंयोगः, द्वितीयो मल्लद्वयक्रियाभ्यां मल्लद्वयसंयोगः तृतीयः कपालतरुसंयोगाद् घटसंयोगः, क्रियाया अभावादवयवाभावाच्च विभुद्वयसंयोगो न भवति, संयोगश्चाव्याप्यवृत्तिः, यत्रकावच्छेदेन संयोगो विद्यते, तदा तत्रैवान्यावच्छेदेन तदभावोऽपि, परमाणुनिष्ठस्यापि संयोगस्य दिगादयोऽवच्छेदकाः कर्मजसंयोगोऽभिघातो नोदनञ्च, आद्यः शब्दहेतुः, द्वितीयः शब्दाहेतुः। संयोगनाशको