________________
( ६५ ) विभक्तव्यवहारासाधारणकारणं वा गुणो विभागजविभा । भेदेन त्रिविधः, पक्षिक्रियया पक्षित रुविभाग आद्यः, मल्लद्वय क्रियया मल्लद्वयविभागो द्वितीयः, तृतीयस्तु कारणमात्र विभागजन्यः, कारणाकारणविभागजन्यश्च तत्र कपालद्वय विभागात् कपालाकाशविभागः प्रथमः, हस्ततरुविभागाच्छरीरतरुविभागो द्वितीय इति, संयोगविभागावनित्यावेव । परापरव्यवहारनिमित्ते परत्वापरत्वे, वैशिके कालिके च पृथवीजलतेजोवायुमनोवृत्तिनी । तत्र देशिकपरत्वं मूर्तसंयोगभूयस्त्वज्ञानजन्यं दूरत्वमिति व्यपदिश्यते, दंशिकमपरत्वं मूर्त्तसंयोगाल्पीयस्त्वज्ञानजन्यमन्तिकत्वमिति व्यपदिश्यते, तयोराश्रयेण सह दिक संयोगोऽसमवायिकारणम् । कालिकपरत्वं दिवाकरपरिस्पन्दभूयस्त्वज्ञानज्ञानजन्यं ज्येष्ठत्वमिति व्यपदिश्यते, दिवाकरपरिस्पन्दाल्पीयस्त्वज्ञानजन्यमपरत्वं कनिष्ठत्वमिति व्यपदिश्यते, तयोराश्रयेण सह कालसंयोगोऽसमवायिकारणम्, एषामपेक्षा बुद्धिनाशान्नाशो भवतीति । सर्वव्यवहारासाधारण कारणं बुद्धिर्ज्ञानम्, अनुभूतिस्मृतिभेदेन द्विविधम्, तत्र संस्कारमात्रजन्यं ज्ञानं स्मरणम्, यथा स घटः स देवदत्त इत्यादि, तत्र पूर्वानुभवः करणम्, स्मृतिभिन्न ं ज्ञानमनुभवः, स प्रत्यक्षानुमितिभेदेन द्विविधः उपमितिशाब्दयोरनुमितावन्त र्भावात्, अत एवोपमानशब्दयोर्न प्रमाणान्तरत्वम्, तयोरनुमानप्रमाणान्तर्भावात्, प्रत्यक्षानुमिती च न्यायदर्शननिरूपणे निरूपिते एव, शब्दप्रमाणस्यानुमानगतार्थत्वमित्थम्, दण्डेन गामानयेत्यादिलौकिकपदानि यजेतेत्यादि वैदिकपदानि वा पतापर्यविषयस्मारित पदार्थसंसर्गप्रमापूर्व काणि आकाङ्
-