________________
( ६६ ) क्षातिमत्पदकदम्बत्वात्, घटनानयेत्यादि पदकदम्बकवत्, यद्वा एते मिथः संसर्गवन्तः योग्यतादिमत्पदोपस्थापितत्वात्, तादृश पदार्थवत्, दृष्टान्तरेण साध्यसिद्धिरिति । उपमानप्रमाणस्यानुमानगतार्थत्वमित्थ गवयव्यक्तिप्रत्यक्षानन्तरं गवयपदं गवयत्वप्रवृत्तिनिमित्तकम्, यद्वा गवयपदं सप्रवृत्तिनिमित्तकं साधुपदत्वादित्य. नुमानेन पक्षधर्मताबलाद्गवयत्वप्रवृत्तिनिमित्तकं सिद्धयतीति ।
प्रमाभ्रमभेदेनापि ज्ञानस्य द्वैविध्यम्, तत्र तद्वति तत् प्रकारक ज्ञानं प्रमा, यथा रजते इदं रजतभितिज्ञानम्, तदभाववति तत् प्रकारकं ज्ञानं भ्रमः, तस्य संशयविपर्ययभेदेन द्वैविध्यम्, तत्रैकस्मिन् धर्मिणि विरुद्ध तत् तदभावकोटि द्वयावगाहि ज्ञानं संशयः, यथाऽयंस्थाणुन वेति । तदभाववति तत् प्रकारको निश्चयो विपर्ययः, यथा शुक्ताविदं रजतमिति, तदभावाप्रकारकतत् प्रकारकज्ञानं निश्चयः, प्रमायां गुणः भ्रमे च दोषः कारणम्, संपादिवृतिजनकत्वेन प्रामाण्यं विसंवाधिप्रवृत्तिजनकत्वेन चाप्रामाण्यमनुमीयत इति परतोग्राह्यत्वमेव प्रामाण्याप्रामाप्ययोरिति । अन्येच्छानधीनेच्छा. विषयो गुणः सुखं धर्मजन्यम् । अन्य द्वेषानधीनद्वेषविषयो गुणो दुःखम् अधर्मजन्यम् । इच्छाकामः, सा फलेच्छोपायेच्छाभेदेन द्विविधा, तत्र सुखविषयिणी दुःखाभावविषयिणोवेच्छा फलेच्छा, तत्र फलज्ञानं कारणम्, फलसाधनेच्छा उपायेच्छा, तत्रेष्ट साध. नताज्ञानं कारणं, सैव कृतिसाध्यत्वप्रकारिकाचिकीर्षेत्यभिधीयते, तस्याश्च कृतिसाध्यताज्ञानमपिकारणम्, द्वेषः क्रोधः, स फलद्वेषोपाय. द्वेषाभ्यां द्विधा, तत्र फलद्वषे फलज्ञानं कारणं, उपाय द्वषे