________________
( ९७ ) द्विष्टसाधनताज्ञानंकारणम् । यत्नः प्रयत्नः, स च प्रवृत्ति निवृत्तिजोवनयोनियत्नभेदेन त्रिविधः, तत्र बलवदनिष्टाननुबन्धीष्टसाधनताविषयककृतिसाध्यताविषयकज्ञानं चिकीर्षापादानप्रत्यक्षं च प्रवृत्तौकारणम्, अत एव प्रवर्तकत्वानुरोधेन विधेरपिबलवदनिष्टाननुबन्धीष्ट साधनत्वमर्थः, निवृत्तिम्प्रति द्वेषद्वाराद्विष्टसाधनताज्ञानं कारणं, जीवनयोनियत्नस्तु शरीरे प्राणसञ्चारे कारणम् अतीन्द्रियश्च, तेन कार्येणानुमेयः । आद्यपतनासमवायिकारणं गुरुत्वं पृथिवीजलवृत्ति, तन्नित्यगतं नित्यम् अनित्यगतमनित्यम् । आद्यस्पन्दना समवायिकारणं द्रवत्वं पृथिवीजलतेजोवृत्ति, सांसिद्धिकनमित्तिक भेदेन तद् द्विविधम्, तत्राद्यं जले, वह्निसंयोगादिनिमित्तजन्यं द्वितीयं तु घृतादिपृथिवीषु सुवर्णादितेजस्सु च, जलपरमाणो द्रवत्त्वं नित्यम्, अन्यत्रानित्यम् । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहो जलमात्रवृत्तिः, नित्यगतोनित्योऽनित्यगतस्त्वनित्यः, तैलाभ्यन्तरजले सप्रकृष्टत्वादहनानुकूल्यसम्पादयति। संस्कारखिविधो वेग-स्थितिस्थापक भावनाभेदात, तत्र वेगः पृथिवोजलतेजोवायुमनस्सुवर्तते, स कमंजवेगजभेदाद् द्विविधः, तत्र शरादौनोदनजनितेन कर्मणा वेगो जन्यते, तेन च पूर्वकर्मनाशादुतरं कर्म, एवमुत्तरोत्तरमपि, यत्र वेगवताकपालेन जनिते घटे वेगो जन्यते स वेगजोवेग इति, स्थितिस्थापकः क्षिती, केषाश्चिन् मते पृथिव्यादि चतुष्टये, अतीन्द्रियोऽसौ, आकृष्टशाखादीनां यत् पूर्वदेशगमनं तत्र हेतुश्च, स उपेक्षानात्मकनिश्चयजन्यः, स्मरणे प्रत्यभिज्ञाने च कारणं, प्रत्यभिज्ञानं च संस्कारसहकृतेन्द्रियजन्यं