________________
(६८ ) ज्ञानं प्रत्यक्षविशेष एव यथा सोऽयं घटः सोऽयं देवदत्त इत्यादि, चरमफलनाश्योऽयं, क्वचिद् रोगादिनाश्यः, क्वचित् कालादिनाश्यः, संस्कारमात्रं जन्यमेव । सर्वेषामहिकपारत्रिकाणां सुखानामसाधारणकारणं धर्मोजीववृत्तिः, गङ्गास्नानादियागादिव्यापारः कर्मनाशाजलस्पर्शादिनाश्यश्च, तदुक्तमाचार्येण
'चिरध्वस्तं फलायालं न कर्मातिशयं विना' इति । दुःखासाधारणकारणमधर्मो निषिद्धकर्मजन्यः प्रायश्चित्तादिनाश्यो जीववृत्तिः धर्माधर्मों मिथ्याज्ञानजन्यवासनाजन्यौ तत्त्वज्ञानाद विनश्यतः, भोगादपि विनश्यतः इति । श्रोत्रेन्द्रियग्राह्य गुणः शब्दः आकाशवृत्तिख्याप्यवृत्तिश्च, स ध्वनिवर्णभेदेन द्विविधः, तत्र मृदङ्गादिमयो ध्वनिः, वायुकण्ठसंयोगादिजन्यः कादिर्वर्णः, कदम्बगोलकन्यायेन वीचीतरङ्गन्यायेन वा श्रोत्रदेशोत्पन्नस्य शब्दस्य ग्रहणं भवति न तु मृदङ्गादि देशोत्पन्नस्य, उत्पन्नः कोविनष्टः क इत्येवमुत्पादविनाशप्रतीत्या शब्दस्यानित्यत्वमेव, सोयं क इत्यादिप्रत्यभिज्ञानं तु तदेवौषधिमित्यादि प्रत्यभिज्ञानवत् साजात्या. वलम्बनमिति । अत्र स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगा नवगुणा वायौ, रूपद्रवत्वसहिता एते एकादशगुणाः तेजसि, रसस्नेहगुरुत्वसहिता एते चतुर्दशगुणा जले, स्नेह होना गन्धयुक्ता एते चतुर्दशगुणाः पृथिव्याम्, संख्यादिपञ्चकं बुद्ध्यादिषट्कं धर्माधर्मी भावना चेत्येवं चतुर्दशगुणा जीवात्मनि, संख्यादिपञ्चकं दिककालयोः, सङ्घादिपञ्चकं शब्दश्चेतिषड्गुणा आकाशे, संख्यादि पञ्चकं ज्ञानेच्छाप्रयत्ताश्चेत्येवमष्टौ गुणा ईश्वरे,