________________
( ३ ) "रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः" इति सूत्रे च शब्देन सचितागुरुत्वादयः सप्त, रूपादयः प्रयत्नान्ताश्च सप्तदश कप्ठत उक्ता इति चविंशतिसङ्ख्यकत्वं गुणानां कणादानुमतमेवेति बोध्यम्, तत्र चक्षुर्मात्रग्राह्यो गुणोत्यं, शुक्लनोलपीतहरितरक्तकपिशचित्रभेदेन सप्तविधं, पृथिवीजलतेजोवृत्ति, पृथिव्यां सप्तविधं, जले अभाश्वरशुक्लरूपं, तेजति भाश्वर शुक्लरूपमिति, अत्र येनेन्द्रियेण यद् गृह्यते तद्गता जाति स्तदभावश्चते. नेन्द्रियेण गृह्यत इति नियमाद्रूपत्वादेरपि चक्षुर्मात्रग्राह्यत्वात् तद्वारणाय गुण इति, एवमग्रेऽपि, रसनग्राह्योगुणोरसः मधुरकटुकषायाम्लतिक्तलवणभेदेन षड्विधः, पृथिवीजलवृत्तिः, पृथिव्यां षड्विधोऽपि, जले मधुर एव । नाणग्राह्योगुणो गन्धः सुरम्यसुरभिभेदेन द्विविधः पृथिवीमात्रवृत्तिः, त्वगिन्द्रियमात्रग्राह्यगुणः स्पर्शः, स च शीतोष्णानुष्णाशीतभेदात् त्रिविधः, पृथिवीजलतेजोवायुवृत्तिः पृथिवीवाय्वोरनुष्णाशीतस्पर्शः, जले शीतस्पर्शः, तेजस्युष्णस्पर्शः, पृथिव्यां पाकजा रूपरसगन्धस्पर्शा अनित्या एव, जले रूपरसस्पर्शा अपाकजा नित्यगता नित्याः, अनित्यगता अनित्याः, एवं तेजोवाय्वोरपि, एतन्मते परमाणावेव पाकजाः, न्यायमतेऽवयविन्यपि, गणनव्यवहारहेतुः सख्या, नवद्रव्यवृत्तितः, एकत्वादिपरार्द्धान्ता तत्र नित्यद्रव्यगतमेकत्वं नित्यम्, अनित्यगतमेकत्वमनित्यत्वम्, द्वित्वादिपरार्धान्ता अपेक्षाबुद्धिजन्या तन्नाशानश्यति अपेक्षाबुद्धिश्वानेककत्वबुद्धिःप्रथमक्षणेऽयमेकोऽयमेक इत्यपेक्षाबुद्धिः द्वितीयक्षगे