________________
( ९२ ) नित्या । विभुत्वञ्चाकाशकालदिशां समानमेवं परममहत्त्वमपि दिगेकाऽप्युपाधिभेदात् प्राचीप्रतीच्यादिव्यपदेशमश्नुते। कालदिशोरप्येकव्यक्तिकत्वात् कालत्वदिकत्वेन जाती। ज्ञानादिगुणवानात्मा, स जीवेश्वरभेदेन द्विविधः, तत्र जन्यज्ञानवत्त्वं जीवस्य लक्षणम्, जीवाः प्रतिशरोरं भिन्ना विभवो नित्याश्च, शरोरेन्द्रियादीनां चैतन्याभावाच्छरीरेन्द्रियाद्यधिष्ठातृतया तेषां सिद्धिः,
नित्यज्ञानवानीश्वरः, सोऽपिविभुनित्यश्च, किन्त्वे को जातः कर्ता, तदुक्तत्वेन वेदस्य पौरुषेयत्वम्, नित्यस्य स्वरूपयोग्य वे फलावश्यम्भाव इति नियमाङ्गीकारे सुखदुःखसमवायिकारणतावच्छेदकतया सिद्धमात्मत्वं जीवमात्रगतम्, उक्त नियमानङ्गीकारे तदीश्वरगतमपीति बोध्यम् । सुखदुःखादिसाक्षात्कारणमिन्द्रियं मनः, तत् संयुक्तत्वात् किञ्चिदिन्द्रियं ज्ञानं जनयति तदसंयुक्तत्वाचा परमिन्द्रियं ज्ञानं न जनयतीत्यतोऽणुमनः तच्च पतिशरीरं भिन्नमिति तद्गतं मनस्त्वसामान्यं सम्भवतीति, सुवर्णस्यतेजस्यन्तर्भावानवसंख्यानि द्रव्याणीति सिद्धम् । चतुविंशतिका गुणा इति, कर्मभिन्नत्वे सत्यसमवायिकारणत्वं द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वं गुणत्वजातिमत्त्वञ्च गुणस्य लक्षणम्, द्रव्यकर्मभिन्न सामान्यवति या कारणता सा किश्चिद्धर्मावच्छिन्ना कारणत्वात् कपालनिष्ठकारणतावदित्यनुमानेन गुणत्वजातिसिद्धिः। उक्त लक्षणलक्षितागुणाः रूपरसगन्धस्पर्शसंख्यापरिमाण पृथक्त्वसंयोगविभागपरत्वबुद्धिसुखदुःखेच्छाद्वषयत्न गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दभेदाचतुर्विशतिकाः चतुर्विशतिसंख्यका इत्यर्थः।