________________
( १ ) रूपादिषु मध्ये गन्धस्यैव ग्राहकत्वेन तस्य पार्थिवत्वं सिध्यति, द्वयणुकादिब्रह्माण्डस्तु विषयः। शीतस्पर्शवत्त्वं जलस्य लक्षणं, जन्य. शीतस्पर्श जनरुतावच्छेदकतया जन्यजलत्वं तदवच्छिन्नजनकतावच्छेदकतया परमाणुसाधारणं जलत्वं सिद्धयति, तत्र मधुरो रसः, अभाश्वरशुक्लरूपञ्च, नित्यानित्यादिभेदः पृथिवीवत्, किन्तु शरीरमयोनिजं वरुणलोके प्रसिद्धम् इन्द्रियं रसनं, रूपादिषु मध्ये रसस्यै व व्यजकत्वात् तस्य जलीयत्वं सिध्यति, सरित् समुद्रादि विषयः। उष्णस्पर्शवत्वं तेजसो लक्षणं, जन्योष्णस्पर्शसमवायिकारणता वच्छेदकतया जन्यतेजस्त्वं तदवच्छिन्नसमवायिकारणतावच्छेदकतया परमाणुसाधारणं तेजस्त्वं सिध्यति, भाश्वरशुक्लरूपन्तत्र, नित्यानित्यादिभेदो जलवत्, इन्द्रियं चक्षुः, तस्य रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वात् तैजसत्वं सिध्यति, वह्नादि विषयः । अपाकजानुष्णाशोतस्पर्शवत्वं वायो लक्षणम्, अपाकजानुष्णाशीतस्पर्शसमवायिकारणतावच्छेदकतया वायुत्वं सिध्यति, तस्य परमाणुवृत्तित्वं पूर्ववत्, तेजस इव नित्यानित्यादिभेदः, देहव्यापि स्वगिन्द्रियम्, तस्य रूपादिषु स्पर्शस्यैव व्यञ्जकत्वेन वायवीयत्वं सिद्ध्यति प्राणादि मंहावायुपर्यन्तो विषयः । शब्दविशेषगुणकमाकाशम्, एकमेव, अत एव तत्राकाशत्वं न जातिः, भोत्रेन्द्रियं तस्य, तस्योपाधिभेदान्नानात्वम् कालिकपरत्वासमवायिकारणसंयोगाश्रयः, स चैकोप्युपाधिभेदात् क्षणलवदण्डमुहूत्र्तदिनपक्षमासादिव्यवहार विषयः, कालिकसम्बन्धेन जगतामाश्रयश्च, दैशिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयतयादिसिध्यति साप्येका