SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ( ६० ) अनन्ताश्च विशेषास्स्यु - रसमवायो न भेद भाक् ॥ अभावो द्विविधो नान्ये पदार्थाः मानगोचराः ||३|| द्रव्याणि नव संख्यानीति, समवायिकारणत्वं गुणवत्त्वं गुणकर्मभिन्नत्वे सति सामान्यवत्त्वं द्रव्यस्य लक्षणम्, द्रव्यत्वजातिमत्त्वमपि द्रव्यस्य लक्षणम्, समवायसम्बन्धेन भावकार्यम्प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणमिति, समवायसम्बन्धावच्छिन्न कार्यत्वाव च्छिन्नकार्यतानिरूपिततादात्म्य सम्बन्धावच्छिन्न द्रव्यनिष्ठकारणता किञ्चिद्धर्मावच्छिन्ना कारणत्वात् घटनिष्ठकार्यतानिरूपितकपालनिष्ठकारणतावदित्यनुमानेन द्रव्यत्वजातिसिद्धिः, अन्यूनामतिप्रसक्तधर्मस्यैवावच्छेदकत्वमिति नियमेन पृथिवीत्वादे न्यूं वृत्तित्वात् सत्तादेश्चातिप्रसक्तत्वान्नोक्तकारणतावच्छेदकत्वमिति बोध्यम् । निरुक्तलक्षणवन्ति द्रव्याणि पृथिवीजलतेजोवाय्वाकाशकालदिगात्मनो भेदेन नवसंख्यकानि नवसंख्यावन्ति । गन्धवत्त्वं पृथिव्यालक्षणं, गन्धसमवायिकारणतावच्छेदकतया पृथिवीत्वजातिस्तत्र सिद्धयति पाषाणादावपि गन्धोऽस्त्येव यद् द्रव्यं यद् द्रव्यध्वंसजन्यं तत् तदुपादानोपादेयमितिनियमात् पाषाणध्वंसजन्ये पाषाणभस्मनि पाषाणोपादानोपादेये गन्धानुरोधेन पाषाणोपादाने गन्धस्यावश्यकत्वेन ततः पाषाणेऽपि गन्धोत्पत्तिसम्भवात्, अनुपलम्भस्त्वनुत्कटत्वेनाप्युपपद्यते, तत्र षड् विधो रसः, सप्तविधो वर्णश्च, पाकजोऽनुष्णाशीतस्पर्शस्तत्र, सानित्याऽनित्या च नित्या परमाणुरूपा, तदन्याऽनित्या, सैवावयववती, तस्याः शरीरेन्द्रियविषयभेदेन त्रैविध्यम्, पार्थिवं शरीरं योनिजमयोनिजं च, इन्द्रियं घ्राणं
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy