________________
( 58 )
॥ अथ कारणाददर्शनं ॥ ५ ॥ वैशेषिकदर्शनापराभिधानम् ॥
पदार्थानुगमे कान्तं काणादं दर्शनं वरम् । द्रव्यादिभिस्सप्तत्त्व - विश्वतत्त्वप्रकाशकम् ॥ १॥
अनन्तानां पदार्थानां प्रत्येकं वक्तुमशक्यानामपि सप्तभिर्द्रव्यत्वादिभिविभजाकधमैरनुगमे एतावन्त एव पदार्था नातोऽधिकासन्तीत्येवमनुगमे कान्तं मनोहरम्, काणादं कणादमुनिभाषितं, दर्शनं वैशेषिकदर्शनाभिधेयम्, वरं न्यायदर्शनापेक्षया श्रेष्ठ, तत्र षोडशपदार्थानामभिधानेऽपि तदनन्तर्भूतानां बहूनां पदार्थानां सद्भावात् इदन्तु द्रव्यादिभिः सप्ततत्त्वः द्रव्य-गुण-कर्म- सामान्यविशेष- समवायाभावाख्यैः सप्तपदार्थः निरुक्त सप्तपदार्थनिरूपणैः, विश्वतत्त्वप्रकाशकम् समस्तपदार्थज्ञानंप्रत्यलम् । यद्यपि 'अथातो धर्मं व्याख्यास्यामः ॥ १ ॥ यतोऽभ्युदयनिःश्रेयससिद्धि सधर्मः ||२|| तद् वचनादाम्नायस्य प्रामाण्यम् ॥ ३॥ ' इति सूत्रत्रयान्तरं "धर्मविशेषप्रसूताद्रव्यगुण-कर्मसामान्यविशेष-समवायानां पदार्थानां साधम्यवैधम्र्म्याभ्यां तत्त्वज्ञानान्निः श्रेयसम् ॥४॥ इति सूत्र ं प्राणिनाय कणादः, तत्र षण्णामेवोपदर्शनं नतु सप्तमस्याभावस्य, तथापि 'कारणाभावात् कार्याभावः इति न तु कार्याभावात्कारणाभावः ' इत्यादि सूत्रणतोऽभावोऽपि तत् सम्मत एवेति बोध्यम् । द्रव्याणि नवसंख्यानि चतुर्विंशतिकाः गुणाः ॥
कर्माणि पञ्चसामान्यं त्रिविधं परिकीर्तितम् ॥२॥