________________
( ८८ ) क्तया, स्तम्भेन च। परिषदा विज्ञातस्य वादिना त्रिभिरभिहितस्याप्यविज्ञानमज्ञानम्, इदश्च किंवदसि बुध्यत एव नेत्याद्याविटकरणेन ज्ञातुं शकयते । उत्तराहें उत्तराप्रतिपत्तिरप्रतिभा ।
असम्भवत्कालान्तरकत्वेनारोपितं कार्यव्यासङ्गमुद्भाव्यकथा विच्छेदो विक्षेपः । स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मता. नुज्ञा, यथा चौरो भवान् पुरुषत्वात् प्रसिद्ध चौरवदित्युक्ते भवानपि चौरः पुरुषत्वादिति बन्नात्मनः परापादित चौरत्वदोषमभ्युपगतवानिति मतानुज्ञयानिगृह्यते ।
निग्रहस्थान प्राप्तवत्तो निग्रहस्थानानुभावन पर्यनुयोज्यो. पेक्षणम्, एतच्च मध्यस्थेनेवोभाव्यं, वादे स्वयमस्योद्भावनमपि युक्तम् । अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः, उपपन्नवादिनमप्रमादिनमनिग्रहाहंमपि निगृहीतोऽसीतियो बूयात स एतेन निगृह्यते।
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः, अस्य कथायां स्वीकृतसिद्धान्तप्रच्यवोऽपसिद्धान्त इत्यत्र पर्यवसानम्, यथा साङ्खयमतेनाहं वदिष्यामीत्यभ्युपेत्यारब्धायां कथायामाविभावेऽनवस्था दोषपरिहारायाविर्भावस्यासतोयद्युत्पत्ति स्वीकरोति तदाऽनेन निगृह्यते । हेत्वाभासास्तु पूर्वमेवलक्षिताः। मोक्षाङ्गस्य कथाङ्गस्य, तत्त्वमात्रस्य दर्शनम् ।
आक्षपादं सुशिलेन, भावितं भाव्यतां बुधैः ॥१॥
॥ इति न्यायदर्शनम् ॥