Book Title: Sambodhi 2018 Vol 41
Author(s): J B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 12
________________ Vol. XLI, 2018 Reflections on Manuscriptology: मातृकामधिकृत्य सूचना उपलभ्यते । यथा योगिनीतन्त्रे नानाविद्या लेखनसामग्री वर्णिता । तत्र लेखनोपयोगिनां पत्राणां सूचि परिगणिता, तद्यथा - भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके । अगुरुणापि देवेशि पुस्तकं कारयेत् प्रिये ॥ सम्भवे स्वर्णपत्रे च ताम्रपत्रे च शंकरि । अन्यवृक्षत्वचि देवि तथा केतकिपत्रके ॥ मार्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ॥ लेखनी वंशताम्रसुवर्णादि निर्मिता स्यादिति वल्लालसेनः दानसागरनामके ग्रन्थे प्रतिपादयति । योगिनीतन्त्रेऽपि तृतीयभागे सप्तमे पटले नैकाः लेखन्यः वर्णिताः । वाराहीतन्त्रे पंचप्रकारकाः लिपयः परिगणिताः मुद्रालिपिः शिल्पलिपिलिपिर्लेखनीसम्भवा । गुण्डिकाघूणसम्भूता लिपयः पंचधा मताः ॥ खड्गमालातन्त्रेऽपि एतासु तिसृणामुल्लेखो वर्तते - लेखन्या लिखितं विप्रैर्मुद्राभिरंकितं च यत् । शिल्पादिनिर्मितं यच्च पाठ्यं धार्य च सर्वदा ॥ न केवल लेखनीगुणं, लेख्यपत्रगुणं, लिपिभेदाश्च वर्णिताः विविधेषु ग्रन्थेषु, अपितु लेखकः कीदृशो भवेदित्यपि विस्तरेण स्थापितं प्राचीनेषु ग्रन्थेषु । काव्यमीमांसायां राजशेखरः लेखकगुणान् विवृणोति 'संस्कारविशुद्धयर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षर, इंगिताकारवेदी, नानालिपिज्ञः कविर्ताक्षणिकश्च लेखक: स्यात् ।। उक्तं च चाणक्यनीतिशास्त्रे - सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः । सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥ अत्र ध्यातव्यं यत लेखकशब्दस्य प्रयोगो आधनिके काले भिन्ने अर्थे भवति संस्कृते तु लेखनकर्मणि प्रवृत्तः लेखक इत्यभिधीयते स्म । तत्रैव काव्यमीमांसायां प्रस्तावितं यन्नूतनायाः कृतेः अनेकाः प्रतिलिपयः कारयितव्याः येन कृतेर्लोपो न स्यात् । श्रूयते नैषधीयचरितस्य प्रतिलिपिः परीक्षणार्थ काश्मीरं प्रेषिता । राजशेखरेण ग्रन्थोच्छेदस्य कारणानि अपि परिगणितानि तद्यथा निक्षेपो विक्रयो दानं देशत्यगोऽल्पजीविता । त्रुटिका वह्निरम्भश्च प्रबन्धोच्छेदहेतवः ॥ दारिद्र्यं व्यसनासक्तिरवज्ञा मन्दभाग्यता । दुष्टे द्विष्टे च विश्वासः पंच काव्यमहापदः ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 256