________________
Vol. XLI, 2018
Reflections on Manuscriptology: मातृकामधिकृत्य सूचना उपलभ्यते । यथा योगिनीतन्त्रे नानाविद्या लेखनसामग्री वर्णिता । तत्र लेखनोपयोगिनां पत्राणां सूचि परिगणिता, तद्यथा -
भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके । अगुरुणापि देवेशि पुस्तकं कारयेत् प्रिये ॥ सम्भवे स्वर्णपत्रे च ताम्रपत्रे च शंकरि । अन्यवृक्षत्वचि देवि तथा केतकिपत्रके ॥
मार्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ॥ लेखनी वंशताम्रसुवर्णादि निर्मिता स्यादिति वल्लालसेनः दानसागरनामके ग्रन्थे प्रतिपादयति । योगिनीतन्त्रेऽपि तृतीयभागे सप्तमे पटले नैकाः लेखन्यः वर्णिताः । वाराहीतन्त्रे पंचप्रकारकाः लिपयः परिगणिताः
मुद्रालिपिः शिल्पलिपिलिपिर्लेखनीसम्भवा ।
गुण्डिकाघूणसम्भूता लिपयः पंचधा मताः ॥ खड्गमालातन्त्रेऽपि एतासु तिसृणामुल्लेखो वर्तते -
लेखन्या लिखितं विप्रैर्मुद्राभिरंकितं च यत् ।
शिल्पादिनिर्मितं यच्च पाठ्यं धार्य च सर्वदा ॥ न केवल लेखनीगुणं, लेख्यपत्रगुणं, लिपिभेदाश्च वर्णिताः विविधेषु ग्रन्थेषु, अपितु लेखकः कीदृशो भवेदित्यपि विस्तरेण स्थापितं प्राचीनेषु ग्रन्थेषु । काव्यमीमांसायां राजशेखरः लेखकगुणान् विवृणोति 'संस्कारविशुद्धयर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षर, इंगिताकारवेदी, नानालिपिज्ञः कविर्ताक्षणिकश्च लेखक: स्यात् ।। उक्तं च चाणक्यनीतिशास्त्रे -
सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः ।
सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥ अत्र ध्यातव्यं यत लेखकशब्दस्य प्रयोगो आधनिके काले भिन्ने अर्थे भवति संस्कृते तु लेखनकर्मणि प्रवृत्तः लेखक इत्यभिधीयते स्म । तत्रैव काव्यमीमांसायां प्रस्तावितं यन्नूतनायाः कृतेः अनेकाः प्रतिलिपयः कारयितव्याः येन कृतेर्लोपो न स्यात् । श्रूयते नैषधीयचरितस्य प्रतिलिपिः परीक्षणार्थ काश्मीरं प्रेषिता । राजशेखरेण ग्रन्थोच्छेदस्य कारणानि अपि परिगणितानि तद्यथा
निक्षेपो विक्रयो दानं देशत्यगोऽल्पजीविता । त्रुटिका वह्निरम्भश्च प्रबन्धोच्छेदहेतवः ॥ दारिद्र्यं व्यसनासक्तिरवज्ञा मन्दभाग्यता । दुष्टे द्विष्टे च विश्वासः पंच काव्यमहापदः ॥