________________
Dipti Tripathi
SAMBODHI
लिपे म ब्राह्मी इत्यासीत् । जैनपरम्परायां मन्यते प्रथमेन तीर्थंकरेण ऋषभदेवेन लोकानां हिताय अक्षराणमाविष्कारः कृतः । लिपेर्नाम च निजकन्यायाः नामसाम्येन ब्राह्मी इति कृतम् । एतेषु सर्वेषु प्रसंगेषु प्रतीयते यत् भारतवर्षे लेखनपरम्परा अतीव प्राचीना । यद्यपि कालस्य प्रभावेण अतिप्राचीनानी पुस्तकानी अद्य नोपलभ्यन्ते किन्तु अत्र अनुपलब्धिः अभावस्य प्रमाणं न । यतो हि अन्यानि बहूनि प्रमाणानि सन्ति यैः सम्यक् प्रतीयते यत् भारतवर्षे लेखनकर्म वैदिककालादेव आरब्धम् । पण्डितक्षेत्रेशचन्द्र चट्टोपाध्यायः 'Reference to writing in Rgveda'2 शीर्षके निबन्धे स्वमतमुपस्थापयति यत् ऋग्वेदस्य दशममण्डलस्य द्विसप्ततितमे सूक्ते चतुर्थे मन्त्रे यदुक्तं -
उत त्वः पश्यन्न ददर्श वाचं उत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्त्रे जायेव पत्ये उषती सुवासाः ॥ तत्र 'वाचः दर्शनम्' इत्युक्तिः लेखनक्रियां संकेतयति । आचार्यो ब्रजबिहारी चौबे 'Manuscriptology : Past and Present' शीर्षके निबन्धे स्थापयति सिन्दुसभ्यतायाः प्राप्तेषु वस्तुषु प्रमाणीभवति यत् तस्मिन् काले लेखनकला सुप्रचलिता आसीत् । ततः पूर्वं वैदिककालेऽपि कापि लिपि: प्रचलिता भवेदिति नास्त्यत्र सन्देहस्य अवकाशः । आचार्यः के० व्ही० शर्मा अपि 'Manuscripts of India' निबन्धे वैदिककाले लेखनकला प्रचलिता आसीदिति प्रतिपादयते ।
परवर्तिनि काले अनेकेषु काव्येषु पुस्तकानां उल्लेखो वर्तते । यथा हर्षचरिते बाणभट्टस्य मित्रेषु पुस्तकवाचकः सुदृष्टिः, लेखको गोविन्दकः, पुस्तकृत कुमारदत्तश्च परिगणिताः । तत्रैव राज्ञः हर्षस्य कृते । अन्येषां सर्वेषां वस्तूनां सह साधुः कुमारभास्करवर्मणा प्रेषितं 'स्थूलसूत्रनियन्त्रितपुस्तिकापुलकमपि' नयति। पुनश्च तत्रैव 'अगरुवल्कलकल्पितसंचयानि सुभाषितभाजिपुस्तकानि' अपि वर्णितानि । लोके प्रसिद्धानि वचनान्यपि मातृकाळां महत्त्वं संकेतयितुमलम् । यथा -
सम्भूष्यं सदपत्यवत् परकराद्रक्ष्यं च सुक्षेत्रवत् संशोध्यं व्रणितांगवत् प्रतिदिनं वीक्ष्यं च सन्मित्रवत् । बध्यं वध्यवदश्लथं दृढगुणैः स्मर्यं हरेर्नामवत्
नैवं सीदति पुस्तकं खलु कदाप्येतद्गुरूणां वचः ॥ अपि च पुस्तकानां रक्षणं कथं कार्यमिति अग्रिमे श्लोके सुष्ठ वर्णितम् –
तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेच्छिथिलबन्धनात् ।
मूर्खहस्ते न दातव्यमित्थं वदति पुस्तकम् ॥ ये ग्रन्थानां महत्त्वं नावगच्छन्ति तेषां हस्ते ग्रन्थः नैव दातव्यः यतो हि तेषां हस्ते ग्रन्थस्य नाशः अवश्यम्भावी ।
पुस्तकशब्दस्य प्रयोगः स्वकीये अर्थशास्त्रे चाणक्येन मातृकायै कृतः । परवर्तीयुगे अनेकेषु ग्रन्थेषु