________________
Reflections on Manuscriptology : Forays into Indian Paradigms of
Knowledge Management
Dipti Tripathi
शोभनोऽयमवसरः सम्प्राप्तः वैंकूवरनगरे विश्वसंस्कृतसम्मेलनस्य अस्माकं सौभाग्येन । उक्तं हि सतां सद्भिः सङ्गः कथमपि पुण्येन भवति । मन्ये विदुषां सङ्गोऽपि महत्पुण्यस्येव प्रसादः । अद्य अत्र विदुषां समवायं दृष्ट्वा मोमुद्यते मे मनः । ईदृश एव समवाये भारतीयानां पाण्डुलिपीनां सम्बन्धे कांश्चन विचारबिन्दून् उपस्थापयन्ती महान्तं परितोषमनुभवामि ।।
प्रथमं तावत् सम्मेलनस्य ब्रिटिशकोलम्बियाविश्वविद्यालयीयेभ्यः समायोजकेभ्यः हार्दिकमाभारं निवेदयामि यतस्तैः ईदृशोऽअवसरः मह्यं प्रदत्तः येनाहं स्वानुभवं स्वविचारांश्च विभिन्नेषु विषयेषु निष्णातविदुषां समक्षमुपस्थापयितुमत्र उपस्थितास्मि ।
____ सुविदितमेव भवद्भिः यत् भारतीयानां पाण्डुलिपीनामितिहास: सुप्राचीनः सुविस्तृतश्च । ग्रन्थप्रेम प्रतिपादयन् एष श्लोकः शिष्टसमाजे तेषां माहात्म्यमपि रेखांकितं करोति -
ग्रन्थाः ममाग्रतः सन्तु ग्रन्था मे सन्तु पृष्ठतः ।
ग्रन्थाः मे सर्वतः सन्तु ग्रन्थेष्वेव वसाम्यहम् । मृच्छकटिकनाटकस्य तृतीयोऽके वर्णिता चारुदत्तस्य वसन्तसेनायाश्च गृहे ग्रन्थशोभा । पुनश्च कादम्बर्या वृद्धद्रविडस्य सामग्रीषु आसीत् 'धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्रपुस्तिका, हरितपत्रसांगारमषीमलिनशम्बूकवाहिना ।' लिखनविरागः पुस्तिकाशोधने उपेक्षाभावश्च मूर्खतापादकेषु अष्टसु कारणेषु कारणरूपेण परिगणितौ । कलौ युगे विष्णुः लेख्याक्षराणां देवतात्वेन सुपूजितः 'कलौ लिप्यक्षरे हरिः' । अन्येषु युगेषु अन्ये देवताः इति निष्कर्षः । एकस्मिन् स्थाने नारदेन बृहस्पतिना च उक्तं षट्सु मासेषु उच्चरिताः शब्दाः विस्मर्यन्ते । तेषां नाशः न स्यादिति लेखनाय ब्रह्मणा अक्षराणामाविष्कारः कृतः। अस्याः
Keynote Address by Prof. Dipti Tripathi in the 17th World Sanskrit Conference held at the University of British Columbia Vancourer, Canada on 9th July, 2018