________________
Dipti Tripathi
SAMBODHI
कविना लेखनसामग्री सदा निजपार्श्वे रक्षणीया यतः लेखने कापि असुकरता न स्यात् । अत एव कबेः पार्श्वे 'संहटिका, सफलकखटिका समुद्गकः, सलेखनीमसीभाजनानि, ताडिपत्राणि, भूर्जत्वचो वा सलोहकण्टकानि तालदलानि, सुसम्मृष्टा भित्तयः सतत्सन्निहिताः स्युः । तद्धि काव्यविद्यायाः परिकरः इति आचार्याः ।
ललितविस्तरनामकस्य बौद्धग्रन्थस्य दशमे अध्याये चतुःषष्टिलिपीनां परिगणनं कृतम् । अस्य ग्रन्थस्य सम्पादकः संशोधकश्च वैद्योपाह्नः परशुरामशर्मा (P. L. Vaidya) मनुते यत् अस्य ग्रन्थस्य कालः ईस्वीयायाः प्रथमशताब्द्या आरभ्य तृतीयशताब्द्या मध्ये भवितुमर्हति । उत्तरवर्तिनी कालसीमामपि यदि वयं मन्यामहे तर्हि स्वीकरणीयं यत् तस्मिन् काले एताः लिपयः लोके प्रचलिताः आसन् । उक्तं च ललितविस्तरे 'अथ बोधिसत्त्वः विश्वामित्रमाचार्यमेवमाह कतमां मे भो उपाध्याय लिपि शिक्षापयासि, ब्राह्मीखरोष्ठीपुष्करसारिं, अंगलिपि, बंगलिपि, मगधलिपि, मंगल्यलिपि, अंगुलीयलिपि, शकारिलिपि, ब्रह्मवलिलिपि, पारुष्यलिपि, द्राविडलिपि, किरातलिपि, दाक्षिण्यलिपि, दाक्षिण्यलिपि, उग्रलिपि, संख्यालिपिम्, अनुलोपलिपि, अवमूर्धिलिपि, दरदलिपि, खाष्यलिपि, चीनलिपि, लूनलिपि, हूणलिपि, (अत्र अनेकाः अन्याः लिपयः परिगणय्य पृच्छति) आसां भो उपाध्याय चतुःषष्टीलिपीनां कतमां त्वं शिष्यापयिष्यसि ?'
भारते वर्षे पाण्डुलिपीनां बाहुल्यस्य अन्यतमं कारणं विद्यादानस्य माहात्म्यस्वीकरणम् उक्तं च हयशीर्षपांचरात्रे -
आकाशस्य यथा नान्तं सिद्धेरप्युपलक्ष्यते ।
एवं विद्याप्रदानस्य नान्तं सर्वगुणात्मकम् ॥ दानमयूखे10 नीलकण्ठेन उक्तं,
कपीलादानसहस्रेण सम्यग्दत्तेन यत्फलम् ।
तत्फलं समवाप्नोति पुस्तकैकप्रदानतः ॥ एवं त्रिविधं विद्यादानम्, पुस्तकदानम् प्रतिमादानम् अध्यापनं चेति ।
अत्र भारतीयपरम्परायां पुस्तकानां महत्त्वं, तेषां संरक्षणं, लेखनसामग्री, लिपिबाहुल्यादि विषयान् अधिकृत्य भवतां समक्षं दिङ्मात्रनिदर्शनं कृतम् । इदानीमाङ्ग्लभाषामाश्रित्य आधुनिके युगे एतेषामावश्यकताम् उपयोगितां च विषयीकृत्य किमपि प्रस्तोतुमुत्सहे ।
It is estimated that India has around ten million Mss. This is perhaps the single largest collection in any one country and this number does not include Mss of Indian origin in the custody of institutions outside India. Manuscripts contain the cumulative knowledge, experience and practices of the people of India from an unspecified past which goes back several thousand years. This needs to be pointed out only to reiterate the vastness and the antiquity of the