Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 155
________________ 149 Vol. XXVI, 2003 चिन्तामणिपरीक्षा : प्रथमो विमर्शः लाघवात् । यद्वा द्रव्यनिष्ठकर्मणोऽरूपत्वेऽपि समवायसन्निकर्षण ग्रह: त - स्वरूपसम्बन्धेनैवाभावग्रहणेऽदूषणादि - धिकेन पर्याप्तं अर्थान्तरत्वात्] ॥१॥ अभिधेयत्वप्रमेयत्वादयो धर्माः केवलान्वयिन एव इति । अत्राऽयं विमर्शः - कथमेते केवलान्वयिनः विपक्षाभावात् इति चेत् ? न, कश्चिदर्थः अभिधेयः कश्चिदनभिधेयश्च इति आबालगोपालप्रतीतेः, "महाजनाचारपरम्परेदृशी, स्वनामनामा ददते न साधवः" इति महाकविप्रवृत्तेः । "आत्मनाम गुरोर्नाम" इत्यादि नीतिशास्त्रे, तथा लोकेऽपि "भावधूनामऽनभिधेयं वध्वाधवनामापि" सर्वपार्षदं व्याकरणं तत्रापि इत् संज्ञकवर्णानां सूत्रेऽभिधेयत्वेपि प्रयोगेऽनभिधेयत्वात् । 'आत्मवित्तं गृहे छिद्रं, भार्या दुश्चरितानि च । वञ्चनं चाऽपमानञ्चाऽभिदधते न पण्डितः ॥१॥" वेदान्तिनस्तु ब्रह्मस्वरूपमनिर्वाच्यमेवाहुः । बौद्धा अपि विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः कार्यकारणता तेषां नार्थं शब्दाः स्पृशंत्यपीति अर्थमात्रे अनभिधेयत्वमेवाहुः । आलङ्कारिका अपि लक्षणीये व्यङ्ग्ये चार्थे अनभिधेयत्वप्रपन्नाः । जैना अपि सप्तभंग्यां तुरीयभङ्गेऽव्यक्तमेवार्थमाहुः, चेष्टादिना अनभिधेयार्थस्य व्यञ्जनात्' । एवं विपक्षे जागरूके कथं अभिधेयत्वं केवलान्वयि ? असद्विपक्ष इति तल्लक्षणात् । अथाभिधेयत्वं । शब्दशक्तिविषयत्वं तस्य न विपक्षः । आकाशत्वादेरपि आकाशादिपदा शक्यस्य वस्तुपदादि शक्यत्वात् इति रुचिदत्तग्रन्थस्तत्रापि आकाशादिपदा शक्यत्व वचनेन १. निर्नामिकादिवैद्यशास्त्रे, अनामिकादिः सामुद्रिकशास्त्रे, योगादिर्लोकेऽनभिधेयोऽर्थः । शाब्दिकमतेऽपि अभिहिताऽनभिहितभेदात् द्विधाकर्म दृश्यते । तेन अभिधेयत्वे पक्षद्वयं - यत् किञ्चित् शब्दाभिधेयत्वं, यावच्छब्दाभिधेयत्वं वा । आद्ये घटे घटशब्दाभि-धेयत्वं यदा तदा पटशब्दानभिधेयत्वमेव अंसे (?शे) तु यावच्छब्दाभि-धेयत्वस्यासिद्धिः । न चैवं तदेव केवलान्वयि इति वाच्यम् । यत् किञ्चि-च्छब्दाभिधेयेऽर्थे यावच्छब्दानभिधेयत्वस्य अत्यन्ताभावप्रतियोगित्वात् । वैशेषिकमतेऽपि व्यापकपदेनैवाऽभिधेयः शब्दः प्रमेयत्वात्, अनभिधेयः श्रावणत्वात्, व्यतिरेकेण घटवदिति सत्प्रतिपक्षधारणात् अनभिधेयत्वधर्मः सिद्धः । २. पदवाच्यत्वं अभिधेयत्वं इति रूढ्यैव । अवयवार्थस्तु उक्त एव पदवाच्यत्वं जादावुपलक्षणेऽपि, तल्लक्षणं तु व्यधिकरणमवच्छेदकमुपलक्षणम् । व्यधिकरणं इतरवृत्त्या विविधं विरुद्धं भिन्नं अधिकरणं यस्य तत्तथा, जय-काकादीनां इतरवृत्त्या सहैव वर्तमानत्वनियमाभावात्, अवच्छेदकं व्यावर्तकं विशेषणेऽतिव्याप्तिवारणाय व्यधिकरणमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184