Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 154
________________ 148 SAMBODHI જિતેન્દ્ર બી. શાહ व्याख्याने कर्मधारयेऽपि, तथैव धूमादेः पक्षे पर्वतादौ धर्मता ज्ञानं', [इदं न्यायमुक्तावल्यां व्याप्तस्येति व्याप्तिविशिष्टस्य प्रक्षेण सह - वैशिष्ट्यावगाहिज्ञानं अनुमितौ जनकमिति] वह्निव्याप्य धूमवानयमिति । अयमेव लिङ्गपरामर्शः । एतज्जन्यं ज्ञानं वह्निमानय इति अनुमितिर्जायते । अत्र एतदनुमितिलक्षणं केवलव्यतिरेकि लिङ्गानुमिताव्याप्तम् । [यदपि व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं चेति रुचिदत्तव्याख्याने कर्मधारयेऽपि तथैव] व्याप्तिविशिष्टता भिन्नसम्बद्धा । पक्षधर्मता भिन्नसम्बद्धा । तथाहि - जीवच्छरीरं सात्मकं प्राणादिमत्वात् । यत्र सात्मकत्वाभावः तत्र प्राणादिमत्वाभावः, इति व्यतिरेकसहचारलक्षणाव्याप्तिः । पक्षधर्मता तु अन्वयरूपेण जीवच्छरीरे पक्षीकृते प्राणादिमत्वेनेति । तेन व्याप्तिवैशिष्ट्यस्य' पक्षधर्मतायाश्च भिन्नविषयत्वे मेवेत्यव्याप्तं । व्याप्तिविशिष्टपक्षधर्मता ज्ञानजन्यं ज्ञानं अनुमितिरिति लक्षणम् । अतिव्याप्तं च व्याप्तिभ्रमे वा पक्षधर्मभ्रमे वा .. तज्जन्यज्ञाने अनुमितित्वाभावात् लिङ्गपरामर्शानुव्यवसाये वाऽतिव्याप्तं, तत्रापि वह्निव्याप्यवच्च ज्ञानवान् अहं इत्येव संवेदनात् लक्षणे प्रथमं परं वा ज्ञानपदं प्रमा परमिति व्याख्यानेऽपि अनुव्यवसाये प्रमात्वाच्च [स्वसमानाधिकरणव्याप्तिविशिष्टपक्षताधर्मताज्ञानजन्यज्ञानमनुमितिलक्षणं नास्ति येन जैनदत्तदूषणावकाशः स्यात्, निर्विशेषव्याप्तिविशिष्टाया एव....तेन....मत्त्वे पक्षधर्मतास्तु व्याप्तिस्तु साध्यव्यापकीभूताभावप्रतियोगित्वावच्छेदेनैव इति लक्षणे सामानाधिकरण्या तन्त्रत्वात् इति चेत् ? न, गौतमीयमते अभावस्य सर्वथाभावव्यतिरिक्तत्वेन तत्त्वतस्तस्य विशेषणत्वाभावात्, अभावस्य विशेषणताया "उभयनिरूपणत्वेन साधोपचारादेव" इत्युक्तं तर्कभाषायां [पृ. ५४] अनन्यगतिकतया द्वारकल्पनया "युष्माकं वादयं चक्रं अस्माकं बदरीगृहे" इति न्यायादेवाभावस्यापि प्रत्यक्षत्वव्यवस्थापनं वस्तुनः सदसदात्मत्वेव न प्रत्यक्षे - घटनिष्ठाभावस्यापि यत्पक्षत्वं १. इदं न्यायमुक्तावल्यां "व्याप्तस्येति, व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्यावगाहि-ज्ञानं अनुमितौ जनकमिति । [पृ. २१२]" २. यदपि व्याप्तिविशिष्टञ्च तत्पक्षधर्मता ज्ञानं चेति रुचिदत्तव्याख्याने कर्मधारयेऽपि तथैव । ३. सात्मकत्वाभावो नाम आत्मसंयोगाभाववद् वस्तुतश्चासिद्धं, आत्मनो विभुत्वेन सर्वत्र तत्संयोगात् तत एव "नित्यविभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासंभवः," इति तर्कभाषायां [पृ. १५] प्राचां वाचः । ४. "वैशिष्ट्यं व्यावृत्तिः" 'नीलमुत्पलमित्यत्र नीलेन अनीलव्यावृत्तिः उत्पले क्रियते' [पृ. २२] इति माधवः । "समानाधिकरणं व्यावर्तकं विशेषणं" "व्यावर्तकं, व्यावृत्तिबुद्धिजनकं । इतरव्यावृत्त्या समानमेकमधिकरणं यस्य तत्तथा । दण्डरूपविशेषणस्य अदण्डिव्यावृत्या समं एकस्मिन् दण्डिनिवर्तमानत्वात् सामानाधिकरण्यमित्यर्थः । व्यावर्त्तकमात्रमुपलक्षणे जटादौ, ततः उक्तं 'समानेति" तावति उक्ते रूपरसादौ प्रसङ्गः, ततो व्यावर्त्तकमिति ।" [पृ. ९२] इदं मितभाषिण्याम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184