Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
परिशिष्टः-१ अनुमानचिन्तामणिः
तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिस्तत्करणमनुमानं, तच्च लिङ्गपरामर्शो न तु परामृष्यमाणं लिङ्गमिति वक्ष्यते । ४३
अथानुमानं न प्रमाणं योग्योपाधीनां योग्यानुपलब्धाभावनिश्चयेऽप्ययोग्योपाधिशङ्कया व्यभिचारसंशयात् शतशः सहचरितयोरपि व्यभिचारोपलब्धेश्च लोके धूमादिदर्शनानन्तरं वन्यादिव्यवहारश्च सम्भावनामात्रात् संवादेन च प्रामाण्याभिमानादिति नाप्रत्यक्ष प्रमाणमिति, न, अप्रमाणसाधघेणाप्रामाण्यसाधने दृष्टसाधर्मास्यानुमानत्वात् एतद्वाक्यस्य सन्दिग्धविपर्यस्तान्यतरं प्रत्यर्थवत्वात् तयोश्च परकीययोरप्रत्यक्षत्वात् अनुमानमप्रमाणमिति वाक्यस्य प्रामाण्याप्रामाण्ययोर्व्याघाताच्च । ३२३ ___अपि चानुमानाप्रामाण्ये प्रत्यक्षस्याप्यप्रमाणत्वापत्तेः प्रामाण्यस्यानुमेयत्वात् स्वतश्च प्रामाण्यग्रहे तत्संशयानुपपत्तेः । व्याप्तिग्रहोपायश्चवक्ष्यते । . .. नन्वनुमितिहेतुव्याप्ति इति का व्याप्तिः, न तावदव्यभिचरितत्वं, तद्धि न साध्याभावववृत्तित्वं साध्यवद्भिन्नसाध्याभावववृत्तित्त्वं साध्यवत्प्रतियोगिकान्योन्याभावासामानाधिकरण्यं सकलसाध्याभाववन्निष्ठाभावप्रतियोगित्वं साध्यवदन्यावृत्तित्वं वा केवलान्वयिन्यभावात् । २३३
- नापि साध्यासामानाधिकरण्यानधिकरणत्वं साध्यवैयधिकरण्यानधिकरणत्वं वा, तदुभयमपि साध्यानधिकरणानधिकरणत्वं, तच्च तत्र यत्किञ्चित्साध्यानधिकरणे धूमे प्रसिद्धम् । २६४ . __व्यधिकरणधर्मावच्छिन्नाभावः । अथेदं वाच्यं ज्ञेयत्वादित्यत्रसमवायितया वाच्यत्वाभावो घट एव प्रसिद्धः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् । न चैवं घट एव व्यभिचारः, साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावववृत्तित्वं हि व्यभिचारः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184