Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 177
________________ Vol. XXVI, 2003 परिशिष्टः-१ 171 __ यावत्साधनाव्यापकमव्यापकं यत्साध्यस्य यावत्साध्यव्यापकंव्यापकंवा यस्य तत्त्वं तदिति चेन्न, सोपाधेरपि तथात्वात्, तथाहि साधनस्य वह्नरव्यापकं यावदार्टेन्धनं तत्प्रत्येकव्यापकं साध्यधूमस्य द्वितीये साध्यधूमस्य व्यापकमार्टेन्धनं तद्व्यापकं महानसीयवह्नः । नापि साध्यं यावद्व्यभिचारि तदव्यभिचारित्वमनौपाधिकत्वं, साध्याव्यभिचारित्वस्यैव गमकत्वसम्भवात्, तच्च दूषितम् । नापि कात्स्येन सम्बन्धोव्याप्तिः एकव्यक्तिके तदभावात् नानाव्यक्तिकेऽपि सकलधूमसम्बन्धस्य प्रत्येकवल्यभावात् । अतएव न कार्येन साध्येन सम्बन्धोव्याप्तिः विषमव्याप्ते तदभावाच्य । न च यावत्साधनाश्रयाश्रितसाध्यसम्बन्धः, साधनाश्रये महानसादौ सकले प्रत्येकं वह्नराश्रितत्वाभावात् । नापि साधनसमानाधिकरणयावद्धर्मसमानाधिकरणसाध्यसामानाधिकरण्यं, यावद्धर्मसामानाधिकरण्यं हि यावत्तद्धर्माधिकरणाधिकरणत्वं तच्चाप्रसिद्ध साधनसमानाधिकरणसकलमहानसत्वाद्यधिकरणाप्रतीतेः । नापि स्वाभाविकः सम्बन्धोव्याप्तिः, स्वभावजन्यत्वे तदाश्रित्वादौ वा अव्याप्त्यतिव्याप्तेः । नास्यविनाभावः, केवलान्वयिन्यभावात् । अथ सम्बन्धमानं व्याप्तिः व्यभिचारिसम्बन्धस्यापि केनचित् सह व्याप्तित्वात् धूमादिव्याप्तिस्तु विशिष्टैव निर्वक्तव्येति तन्न, लिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरूपणप्रस्तावे लक्षणाभिधानस्यार्थान्तरत्वात् । न च सम्बन्धमात्रं तथा तद्बोधादनुमित्यनुत्यत्तेः । ५८४ नापि व्याप्तिपदप्रवृत्तिनिमित्तमिदं, सम्बन्धज्ञानेऽपिव्याप्तिपदाप्रयोगात् । केवलान्ययिनि केवलान्वयिधर्मसम्बन्धो व्यतिरेकिणि साध्यवदन्यावृत्तित्वं व्याप्तिः एतयोरनुमितिविशेषजनकत्वं अनुमितिमात्रे पक्षधर्मतैव प्रयोजिका । न चातिप्रसङ्गः, विशेषसामग्रीसहिताया एव सामान्यसामग्र्याः कार्यजनकत्वनियमादिति केचित्, तदपि न, साध्यवदन्यावृत्तित्वस्य धूमेऽसत्वात् वह्निमत्पर्वतान्यस्मिन् धूमसत्वात् । न च सकलसाध्यवदन्यावृत्तित्वं, वह्निमतां प्रत्येकं तथात्वात् सर्वत्र लक्षणे साध्यत्वसाधनत्वतदभिमतत्वानां व्याप्तिनिरूपत्वेनात्माश्रयः, साध्यत्वं हि न सिद्धिकर्मत्वं, सिषाधयिषाविषयत्वं वा, महानसीयवह्नौ तदभावात् । न च सामान्यतो व्याप्त्यवगमोऽस्त्येव परस्य कथमन्यथा दूषणेनासाधकतां साधयेदिति वाच्यं, स्वार्थानुमानोपयोगिव्याप्तिस्वरूपणं विना कथायामप्रवेशादिति । पूर्वपक्षः ६०५ व्याप्तिवादे सिद्धान्तलक्षणम्-अत्रोच्यते, प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः । ६१० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184