Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
170
SAMBODHI
જિતેન્દ્ર બી. શાહ न च वाच्यत्वाभावस्तादृशो घट इति चेत्तर्हि तादृशसाध्याभावसामानाधिकरण्याभावो व्याप्तिः । तथा चाप्रसिद्धिः । २९५
प्रतियोग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदकः तद्विशिष्टज्ञानस्याभावधीहेतुत्वात् अन्यथा निर्विकल्पकादपि घटो नास्तीति प्रतीव्यापत्तेः, गवि शशश्रृङ्गं नास्तीति प्रतीतेरप्रसिद्धः शशशृगं नास्तीति च शशे शृंगाभाव इत्यर्थः । ५०७
पूर्वपक्षः । अथ साध्यासामानाधिकरण्यानधिकरणत्वे सति साधिकरणत्वं व्याप्तिः केवलन्वयिनि साध्यासामानाधिकरण्यं निरधिकरणे आकाशादौ प्रसिद्धमिति चेन्न । ५२५
साध्यासामानाधिकरण्यं हि न साध्यानधिकरणाधिकरणत्वं साध्याधिकरणानधिरणत्वं वा केवलान्वयिनि यत्किञ्चित्साध्याधिकरणानधिकरणे धूमे चाव्याप्तः । नापि स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं पर्वतीयवह्नर्महानसीयधूमसमानाधिकरणा- . त्यन्ताभावप्रतियोगित्वात् द्रव्यत्वादेव्याप्यतापत्तेश्च । न च प्रतियोगिविरोधित्वं व्याप्यवृत्तित्वं वा अभावविशेषणं देयं संयोगादौ साध्ये सत्वादेरनैकान्तिकत्वाभावप्रसङ्गात् । न हि प्रतियोगिविरोधी सयोगादेरपरोत्यन्ताभावोस्ति अधिकरणभेदेनाभावभेदाभावात् । नापि साधनवन्निष्ठान्योन्याभावाप्रतियोगिसाध्यवत्कत्वं व्याप्तिः मूले वृक्षः कपिसंयोग वन्नेत्यबाधितप्रतीतेः तदन्योन्याभावस्यापि तत्र सत्वात् । न चैवं भेदाभेदः, अवच्छेदकभेदेन तत् सत्वाभ्युपगमात्, साधनवन्निष्ठान्योन्याभावाप्रतियोगि साध्यवद्यस्येति षष्ठ्यर्थव्याप्यव्यापकभावानिरूपणात् साध्यसाधनयोर्व्याप्तिनिरूप्यत्वात् वह्निमत्पर्वतस्य धूमवन्महानसनिष्ठान्योन्याभावप्रतियोगित्वाच्च विशेषाभावकूटादेवाभावव्यवहारोपपत्तौ सामान्याभावे मानाभावात् । नापि साधनसमानाधिकरणयावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसामानांधिकरण्यं साधनसमानाधिकरणस्य प्रमेयत्वादेर्वैयधिकरण्याप्रसिद्धः, महानसादौ समवायितया वह्निवनियमतोरत्यन्तान्योन्याभावयोः सत्वात् धूमादावप्युक्तलक्षणाभावाच्च । ५३९
अथानौपाधिक: सम्बन्धो व्याप्तिः, उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापकः, व्यापकत्वं तु तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं, व्यभिचारे चावश्यमुपाधिः, प्रतियोगित्वं न विरोधित्वं सहानवस्थाननियमलक्षणं, गोत्वाश्वत्वयोरतथात्वात् अन्योन्याभावप्रतियोगिन्यसत्त्वाच्च । किन्तु यथाधिकरणाभावयोः स्वरूपविशेषः संबन्धः तथा प्रतियोगित्वमनुयोगित्वमपि, अभावविरहात्मत्वं वेति चेत्, यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मनिषेधो न, धूमादौ प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मश्च सिद्धासिद्धिभ्यां न, निषेद्धं शक्यः, यावत्साध्यव्यापके प्रमेयत्वादौ साधनाव्यापकत्वं यावत्साधनाव्यापके च घटत्वादौ साध्यव्यापकत्वं निषिध्यत इति चेन्न, व्यधिकरणत्वात् । ५६१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184