Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 161
________________ Vol. XXVI, 2003 चिन्तामणिपरीक्षा : प्रथमो विमर्शः 155 अन्योन्याभावलक्षणमपि यत्समानाधिकरणाऽन्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरिति । धूमवत्समानाधिकरणाऽन्योन्याभावप्रतियोगि वह्निमत् न भवति इति वह्निना धूमस्य सामानाधिकरण्यं इति फलितोऽर्थः । रुचिदत्तरुचिरप्यत्र यथा - यत् समानाधिकरणाऽन्योन्याभावप्रतियोगितावच्छेदकं यदवच्छिन्नं यन्न भवति तदवच्छिन्नेन येन यस्य सामानाधिकरण्यं तयोर्व्याप्तिः । न चैवं साध्यसामानाधिकरण्यमस्तु किं पूर्वप्रतीकेन इति वाच्यम्, गन्धादिव्यभिचारिणि द्रव्यत्वेऽतिव्याप्तिवारकत्वात् । अत्रैवं विमर्शः - अन्यवृत्ति वह्नि तद्वतोरन्यवृत्ति धूमवत् निष्ठाऽन्योन्याभावप्रतियोगित्वात् व्यधिकरण धूमध्वजधूमयो न व्याप्तिः किन्तु तत्तद्धूमस्य स्वसमानाधिकरण तत्तद् वह्निनैवेति वचनांत्, पार्वतीयधूमेन पार्वतीयवह्नाप्तिप्रतिपत्त्या निर्मूलत्वम् । ततो व्याप्तिप्रकारक पक्षधर्मता ज्ञानजन्य परामर्षस्यापि निर्मूलकत्वम्, तज्जन्यानुमितेरपि आकस्मिकत्वं प्रसज्यते । न चैतदयुक्तम् । रुचिदत्तरुचावपि व्याप्तेः यत्तद्भ्यां अननुगतत्वेन तद्विषयकपरामर्षस्यापि तथात्वादनुगतानुमिति प्रति कथं हेतुता ? तथा च कथं नानुमितित्वं आकस्मिकम् ? पक्षतादेरपि यच्चादिघटितत्वेन अननुगतत्वात् इति, एवञ्च तत्तद् धूमवह्नयोः पक्षमात्रवृत्तित्वेन व्यभिचाराऽवारकत्वेनासाधारण्यात् । न च पार्वतीयसाध्यसाधनयोः व्याप्तिनिश्चये महानसीयौ धूमाग्निनिदर्शनं इति वाच्यम् । उदाहरणेऽपि उदाहरणान्तरापेक्षयाऽनवस्थानात्, परस्परापेक्षया अन्योन्याश्रयात्, उदाहरणानुपस्थितौ वादिनो न्यूननिग्रहापत्तेश्च । एकव्यक्तिकानुमाने अयं घटः एतत्त्वादित्यादौ तथा अभेदानुमाने अयमस्मादभिन्नः, एतत्त्वादित्यादौ अन्योन्याभावानपेक्षयाऽपि अनुमितेर्जायमानत्वात् इत्यलं प्रसक्तानुप्रसङ्गेन । .अथ यथा कथञ्चित् केवलान्वयिन्यपि साध्याभावप्रसिद्धि मात्रेणैव प्रकृतसङ्गति मन्वान: कश्चित् व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकं अभावं व्यवस्थापयति । अथेदं वाच्यं ज्ञेयत्वात् इत्यत्र समवायसम्बद्धत्वे न वाच्यत्वं घट एव नास्ति । वाच्यत्वस्य घटे स्वरूपसम्बन्धात् । न च स्वरूपमात्रे सम्बन्धत्वमेव नास्ति, "सम्बन्धो द्विविधः" इति सर्वत्रवचनात्, इति वाच्यम् । गौरोहमिति शरीरेऽपि मम हस्ते स्वर्णवलयमित्यादि प्रत्ययवत् भेदाभेदविवक्षणात् [एकमैकविरुद्धताऽपि अवच्छेदकभेदादिष्टैव] । कपाले घटघटान्योन्याभावयोः सहैववृत्तेरविरोधात्, अतएव सम्बन्धपदवाच्यत्वमपि स्वरूपस्येति । १. घटो गन्धवान् द्रव्यत्वात् । २. असाधारणहेत्वाभासत्वम् । ३. स्वरूपस्वरूपवतोर्भेदेन उभयनिरूपणीयत्व स्वसाधर्म्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184