Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
Vol. XXVI, 2003
चिन्तामणिपरीक्षा : द्वितीयो विमर्शः
159
त्वस्य प्राणादिमत्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वेऽपि तन्निष्ठ द्वित्वस्य हेतसमानाधिकरणात्यन्ताभावप्रतियोगित्वात् साध्यतावच्छेदकावच्छिन्न प्रतियोगिकाभावववृत्तित्वमेव, ततो व्यभिचारलक्षणमतिव्याप्तम् । न चातिरिक्तवृत्तितया द्वित्वं नावच्छेदकं इति वाच्यम् ? यादृगूपेण साध्यं तादृग्रूपेण अवच्छेदकत्वे अनतिरिक्तवृत्तित्वात् । न चाकाशे सात्मकत्वं भिन्नसम्बन्धेनेति ध्येयं, संयोगे सम्बन्धेन उभयत्र जीवच्छरीरे नभसि च तादृशत्वात् । तत एव श्रोत्रावच्छिन्नप्रदेशे शब्दज्ञानं ऐन्द्रियकं जायत इति ।
अथ अन्यथा निर्विकल्पकादपि घटो नास्तीति प्रतीत्यापत्तेः, इत्यत्रापि विमर्शः -
निर्विकल्पकं ज्ञानं सप्रकारकं नि:प्रकारकं वा ? नाद्यः अपसिद्धान्तात् । निःप्रकारकं चेत् ? ज्ञानत्वस्यैव पराहतिः, ज्ञानस्य प्रकाशरूपत्वेन दीपादिवत् निर्विषयत्वविरोधात् । ज्ञानेन सता तत्त्वेन अतत्त्वेन वा किञ्चित् ज्ञापनायमेव । तत एव तत्साधने विशिष्टज्ञानं विशेषणज्ञानपूर्वकं इति प्रयोगः । अथ निर्विकल्पके विशेषणज्ञानं स्मरणरूपं संस्कारोपनीतं प्रवर्तते इति चेत् ? तर्हि अभावोऽपि तथैव प्रतीयताम् । अथ नि:प्रकारकत्वात् तस्य 'अव्यक्तं ज्ञानं किञ्चित्' इत्यनुमीयते इति चेत् ? एवमपि भावत्वमात्रनिर्णयेऽभावत्वनिरासपकत्वबलात् प्रतिपत्तव्यः । न च निराकारत्वात् तावानपि प्रकाशो दुर्घट इति वाच्यं, सविकल्पकविषयीभूतभूतलावच्छेदेन घटो नास्तीति प्रतीतिर्वैशिष्ट्यावगाहिनीमाभूत्, परं ज्ञानत्वान्यथानुपपत्त्या किञ्चिद्भावत्वेन प्रकाशो युक्त इति तदाऽभावत्वनिषेधं विना तदनुपपत्तिरिति । [गौरिति ज्ञाने यथा गोत्वांशे निर्विकल्पकत्वमेवमस्यापि निर्विकल्पकत्वमित्यर्थः, इत्यानुमानप्रकाशे ।]
नि:प्रकारकत्वं तु अस्य तारतम्येनैव समर्थनीयम्, अयमस्माद् गुरुरयमस्माल्लघुरिति व्यवहारवत् । अन्यथा यथार्थत्वमेव दुरुपपादम् । साक्षात् करोमीति प्रतीतेः प्रत्यक्षप्रमात्वव्याप्यत्वादिति साक्षात् करोमीति क्रियायाः कर्मसापेक्षत्वात् कर्मापि किञ्चित्भावत्वादि आवश्यकमेवेष्टव्यमिति ।
शशश्रृङ्गं नास्तीति प्रतीतिः शशे श्रृङ्गाभाव इत्यर्थः । अत्राप्ययं विमर्शः - शशश्रृङ्गं पक्षीकृत्य नास्तीति साध्यमभावं कुर्वता कुत्रापि अप्रसिद्धत्वादिति हेतुराक्षिप्त एव । तत्राऽयं
१. सात्मकत्वाभाववति घटे प्राणादिमत्वाभावः तेन हेतः प्राणादिमत्वं तत्समानाधिकरणोऽत्यन्ताभावो घटपटादेस्तथा
नभसोऽपि त घटपटाद्यभावप्रतियोगि सात्मकत्वं । एवं च जीवच्छरीरे सात्मकत्वे साध्ये नभसोऽभावप्रतियोगि
सात्मकत्वं जायते, नभोत्यन्ताभावस्य प्रतियोगित्वे नभसि तत् समानाधिकरणत्वे न द्वित्वावच्छिन्नसाधनात् । २. न हि तत् द्वित्वावच्छिन्नं जीवच्छरीरमात्रं किन्तु नभोऽपि द्वित्वस्य उभयत्र पर्याप्तेः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184