Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वितीयो विमर्शः
अथ व्यर्थविशेषणत्व' रहितत्वे सति व्यभिचारिव्यावृत्तित्वमेव हि धर्मस्य व्याप्तिनिरूपकत्वे तन्त्रं, न तु अनतिप्रसक्तत्वमपि गौरवात् इति वचनात् अव्यभिचरितत्वलक्षणे व्यभिचारिज्ञानस्यैव विमर्श उचितः, तेन साध्यत्वावच्छेदकावच्छिन्नप्रतियोगिकाभावववृत्तित्वं हि व्यभिचार इति लक्षणं विमृश्यते । एवं सति साध्यतावच्छेदकावच्छिन्न साध्याभावाऽसामानाधिकरण्यमव्यभिचारस्तथा च केवलान्वयिनि साध्यके अव्यभिचाररूपव्याप्तिदुरुपपादैव । अथ तत्र केवलान्वयि साध्यसामानाधिकरण्यमात्रज्ञानं केवलान्वयाऽनुमितिप्रयोजकं इति चेत् ? तदा व्यभिचारभ्रमेऽप्यनुमित्यापत्तिः । तादृशज्ञानस्य तदाप्यक्षतेः । तत एव उक्तं केवलान्वयिनि । तादृश साध्याभावसामान्याधिकरण्याभावो व्याप्तिस्तथा वा अप्रसिद्धिरेवेति ।
एवञ्च केवलान्वयि साध्यके प्रयोगे एतद् व्यभिचारलक्षणस्य फलितोऽर्थो विपक्षवृत्ति तदसम्भवि । केवलव्यतिरेकि प्रयोगे च अतिव्याप्तं, तत्रापि साध्यतावच्छेदकावच्छिन्नः साध्याभाववति घटादौ प्राणादिमत्वस्य वृत्तेः । एवं इदं संयोगिद्रव्यत्वादित्यादि सद्धेतावपि व्याप्तं, तत्रापि तादृशाभाववति मूले द्रव्यत्ववृत्तेरिति । ततो हेतुसद्भावे साध्याऽसद्भाव एव व्यभिचारलक्षणं युक्तं । अयोगोलके हेतुभूतवह्निसत्त्वेपि साध्याभिमतधूमस्य असद्भावादिति, न चात्र पक्षतादशायां धूमाऽसद्भावस्यानिश्चितत्वात्, कथमेतल्लक्षणं विचक्षणम् । पक्षे पक्षसमे वा न व्यभिचार इति वाच्यं, वह्नेरङ्गारावस्थायां प्रागेव तन्निश्चयात् अयोगोलके तत्साधनबाधापत्तेः । एवं तावच्छरीरं तदवच्छिन्नं नभश्च द्वयमपि सात्मकं प्राणादिमत्वात् । अत्र जीवच्छरीरसात्मक
१. शब्दो नित्यः गुणत्वे सति अकारणत्वात् गुणत्वं व्यर्थम् । २. साधनं साध्यात्यन्ताभाव साध्यात्यन्ताभाव । (?) ३. अन्यथा मस्तके छिन्नेपि कबन्धादौ नृत्यं घटते न चैवं व्यभिचारित्वमेव व्यभिचरितो व्यतिरेकी साधारणहेत्वाभास
एवेति वाच्यं, शास्त्रेषु सर्वत्र सद्धेतुत्वकथनात् । ४. प्राणायामकरणे "अष्टाङ्गुलवहेद् वायुरनलश्चतुरङ्गलः, द्वादशाङ्गलमाहेन्द्रे षोडशाङ्गलवारुणम् ।" इति । तथा प्रत्यक्षेण
कायतो बहिर्नभःप्रदेशे माणादिमत्वे सत्यपि सात्मकत्वाभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184