Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 166
________________ 160 જિતેન્દ્ર બી. શાહ SAMBODHI पक्षः - प्रमाणसिद्धस्तदन्यो वा ? नाद्यः - अप्रसिद्धः, नान्त्यःप्रमाणासिद्धत्वे हेतोराश्रयासिद्धेः, विकल्पसिद्धस्य पक्षस्य तन्मतेऽनङ्गीकारादेव नात्रोक्तः । शशपक्षीकृत्य श्रृङ्गाभावे साध्ये समवायित्वावच्छेदेन संयोगावच्छेदेन वा ? नाद्यः - व्यधिकरणधर्मावच्छिन्नाऽनङ्गीकारात्, नान्त्यः कुत्रचित् कौतुकादौ तत्संयोगस्यापि सम्भावनीयत्वात् । यतः गगनादौ द्रव्ये किञ्चिदवच्छेदेन परमाण्वादिसंयोगो न भूतो न भावी न वर्तमान इत्यस्य प्रमाणाभावेन निश्चेतुमशक्यत्वादिति रुचिदत्तरुचिः शुचिरेव । ___ततो गवि शशीयं श्रृङ्गं नास्तीति प्रतीतिरेव प्रमाणम् । गवि शशश्रृङ्ग इति समस्तपदवाच्यं, पदार्थमुद्दिश्य तदभाव प्रतिपाद्यते तदा प्रसक्तस्य निषेधो न पुनः कुत्राप्यप्रसक्तस्य । न चारोपेण तन्निषेधोऽपि युक्तः, तत्राप्यनारोप्यपूर्वकत्वनियमात् । शशश्रृङ्गत्वमप्रामाणिकमेव, तदध्यवसाये निवेश्य निषेध्यं । न चेद् गगनारविन्दं सुरभीत्यादौ आश्रयासिद्धिरनुपपन्ना स्यात् । ' इतोऽधिकं प्रागुक्तमेव । अथ प्रतियोगित्वं न विरोधित्वं सहानवस्थाननियमलक्षणम् । गोत्वाऽश्वत्वयोरपि तथात्वादतिव्याप्तेः, अन्योन्याभावप्रतियोगिनि अभावात्, च घटघटान्योन्याभावयोः कपाले सहैव वृत्तेरित्यर्थः । अत्र अन्योन्याभावेपि अव्याप्यवृत्तित्वं चिन्त्यम् । संयोगादौ अप्रतियोगित्वापत्तिश्च । आकाशादेर्घटात्यन्ताभावप्रतियोगित्वापत्तिरित्यपि दूषणमत्र द्रष्टव्यम् ।। अभावविरहात्मत्वं वा इत्यत्र ननु अभावस्य विरह: इत्यादिः षष्ठ्यर्थः सम्बन्धित्वमात्रं प्रतियोगित्वं वा ? नाद्यः-समानाधिकरणयोर्घटाभावपटाभावयोः परस्परं प्रतियोगित्वापत्तेः । नान्त्यः-आत्माश्रयात् । इति चेत् ? न स्वरूपसम्बन्धविशेषस्यैव षष्ठ्यर्थत्वात् । न चैवं स एव प्रतियोगित्वमस्तु लाघवादिति वाच्यम् । तावन्मात्रस्य अन्योन्याभावप्रतियोगिन्यपि गतत्वात् । क्वचित् संयोगवति द्रव्ये अन्योन्याभावो व्याप्यवृत्तिरन्यथा संयोगस्य तंत्र तथात्वे तस्याऽव्याप्यवृत्तित्वापत्तिः । अत्र व्याप्यवृत्तित्वमुक्तम् । ततोऽत्रापि विमर्शः । ननु अवच्छेदकत्वं नावच्छित्तिप्रत्ययजनकत्वम् । जनकत्वस्य नियमः न त्वेन अन्योन्याश्रयात्, नाऽपि अन्यूनानतिरिक्तदेशवृत्तित्वं धूमत्वस्यापि वह्निसामानाधिकरणन्यूनदेशवृत्तित्वात् आलोकादौ वह्निसमानाधिकरणे अवृत्तेः । नापि तदनतिरिक्तदेशवृत्तित्वं । इदं सुखि आत्मत्वात् इत्यादौ व्यभिचारिणि गतत्वात् आत्मत्वस्य सुखसमानाधिकरणत्वेन आत्मत्वस्य सुखसामानाधिकरण्यानतिरिक्तवृत्तित्वात्, न च साध्याभावसमानाधिकरणावृत्तित्वं १. समवायित्वावच्छेदेन श्रृङ्गस्य प्रतियोगिनः शशीयत्वं प्रतियोगितावच्छेदकं ....तस्तथा चोक्तम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184