Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
166
જિતેન્દ્ર બી. શાહ
SAMBODHI
भावेपि । तदुपलक्षितलक्षणेऽव्याप्तिरेवेति चेत् ? न, इच्छाया अव्याप्तिपूर्वकत्वनियमात् अप्राप्ते संशयगोचरत्वात् । यत्तु प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिका इति वचोऽनुमित्सा विषयं तेन संदेहाभावेपि सिसाधयिषयानुमितिरिति । तदपि विमर्शनीयमेव । प्रत्यक्षेण फलसिद्धावनुमितेर्वैयर्थ्यात् वाचस्पतिवचस्तु भिन्नविषयम् । जलं प्रत्यक्षदृष्टमपि दूरान्मरुमरीचिकाभ्रमात् तन्निर्णयाय अनुमितिविषयीकार्यम् । लोकाकुलस्थले चित्रितव्याघ्रादिप्रत्यक्षे वा तन्निर्णयाय अनुमानं सोपयोगमेव । नाणके प्रत्यक्षेऽपि परीक्षकैरनुमानकरणात्, अन्यथा न हि करिणीदृष्टे चीत्कारेणऽनुमिमतेऽनुमातारः इत्यनेन वाचस्पतिवचनेन विरोध एव । यद्वाऽनुमित्या वह्नौ पार्वतीये ज्ञातेऽपि साक्षादिक्षा शब्दतः प्रतियित्सा वा जायते, तावता तस्या आवश्यकत्वम् । एवं सिसाधयिषायामपि भाव्यम् । परं न सा लक्षणरक्षणाय सोपयोगैन । संदेहक्रमादुदीर्णस्वकारणाधीनतृतीयलिङ्गपरामर्शबलेन अनपेक्षितस्यापि अनुमानदर्शनात् व्याप्तिज्ञानं तु.. आवश्यकम्, पक्षधर्मता तु क्वचिद् भवति न भवति वेति, पित्त्रोर्ब्राह्मण्यात् पुत्रे ब्राह्मण्यानुमानदर्शनात् । नटविटादीनामपि ब्राह्मण्यं कस्मान्नायं साधयतीति चेत् । पक्षधर्मोपि पर्वतधर्मो द्रव्यता, तत्र चित्रभानु किमिति नानुमाययतीति समानं व्यभिचारात् चेत् ? तदपि तुल्यं तपित्त्रोर्ब्राह्मण्यं तद्गमकम् । एवं तर्हि प्रयोजकसम्बन्धेन सम्बद्धो हेतुः कथं व्यधिकरण इति चेत् ? ननु यदि साध्याधिगमप्रयोजकसम्बन्धाभावाद् वैयधिकरण्यमुच्यते, तदानीं सम्मतमेव एतद्रूषणं, किन्तु प्रमेयत्वादयोपि धर्माव्यधिकरणा एव वाच्याः स्युः, न व्यभिचार्यादयः । तस्मात् पक्षान्यधर्मत्वाभिधानादेव व्यधिकरणो हेत्वाभासस्ते सम्मतः स च आगमक इति नियम प्रत्याचक्ष्महे ।
___ अथ प्रतिमोहशक्त्याऽन्यथाभिधानेऽपि, ब्राह्मणजन्यत्वात् इत्येवमर्थं प्रतिपाद्य साध्यं प्रतिपद्यते । इति चेत् ? एवं तर्हि प्रतिमोहशक्त्यैव पटस्य अतकत्वाद् इत्यभिधानेऽपि पटस्य कृतकत्वाद् अनित्यत्वं दृष्टं, एवं शब्दस्यापि, तत एव तदस्तिप्रतिपत्तौ न्यायमपि व्यधिकरण: स्यात्, तस्मात् यथोपात्ते हेतुस्तथैव तद्गमकत्वं चिन्तनीयम् । न च यस्मात् पटस्य कृतकत्वं तस्मात् तदन्येनाऽपि अनित्येन भवितव्यं इत्यस्ति व्याप्तिः, अतोऽसौ व्यभिचारादेवागमकः । एवं काकस्य कार्ष्यादिरपि ।
किञ्च, किं नाम प्रतिमोहशक्तित्वं ? प्रतिभाबलात् तर्कस्यानुकूलस्य सामर्थ्य इति चेत् ? न, नैयायिकानां मते तर्कस्य अप्रमारूपत्वेन तस्य तादृग् धेनुं प्रति असामर्थ्यात् । अप्रमायां प्रमात्त्वज्ञानेन अनुमित्यादेः प्रतिबन्धाच्च । अथ तर्कस्य प्रमात्त्वमेव तत एवाऽनुकूलतर्काभावेन पक्षेतरे नोपाधित्वम् । परं तर्कस्य प्रमात्वे तत्करणस्य संस्कारस्य प्रमाणान्तरतापत्तिरिति सम्भावनयैव अप्रमात्वमिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184