Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 167
________________ 161 Vol. XXVI, 2003 चिन्तामणिपरीक्षा : द्वितीयो विमर्शः तत् । आत्मत्वं तु ईश्वरात्मनि सुखाभावसमानाधिकरणमेवेति वाच्यं केवलान्वयिन्यभावात् [केवलान्वयिनि साध्याभावस्यैव अप्रसिद्धः] । नापि साध्यसामान्याधिकरण्याभावाधिकरणाऽवृत्तित्वम् । आत्मत्वं तु ईश्वरात्मवृत्तित्वावच्छेदेन सुखसामानाधिकरण्याभावाधिकरणमेवेति वाच्यम् । एवं हि अयमेतत् कपिसंयोगी । एतद् वृक्षत्वादित्यादावव्याप्तिः स्यात् । एतद् वृक्षत्वस्यापि मूलावच्छेदकभेदेन । एतत् कपिसंयोगसामानाधिकरण्याभावाधिकरणत्वात् । एतद्वृक्षत्वे संयोगसामानाधिकरण्यसत्वात् कथं तदभाव इति यदि तदेतदात्मत्वेपि तुल्यम् । अवच्छेदभेदेन विरुद्धयोरप्येकत्रवृत्तिर्न विरुद्धा इत्यपि तुल्यमिति चेत् ? अत्र ब्रूमः ___ अधिकरणैकदेशावच्छेदेन साध्यसामान्याधिकरण्याभाववान् यः तदवृत्तित्वं विवक्षितम् । इत्याद्याकरप्रकाशे। अन्येतु - 'अवच्छेदकत्वं स्वरूपसम्बन्धविशेषः, संयोगादिषु शाखादौ स एवावच्छेदकत्वं संयोगस्य वृक्षे समवायः सम्बन्धोऽवच्छेदकं विशेषणताविशेष इति गुण किरणावल्यां अभिधानात् । तेनावच्छेदकलक्षणाऽननुगमे तद्घटितव्याप्त्यादिलक्षणेऽपि अननुगम एव । तथाहि - क्वचित् सामान्यलक्षणा प्रत्यासत्तिस्तयैव व्याप्तिग्रहः धूमत्वावच्छेदेन वह्नित्वावच्छेदेन च सकलधूमवढ्योर्व्याप्तिः । क्वचिन्महानसीयाद्यवच्छेदभेदेन तत्तद्वयादेरेव मिथो व्याप्तिः, न च धूममात्रे सर्वधूमव्यक्तेस्तथात्वेन धूममात्रस्य वह्निमात्रेण व्याप्तिरिति वाच्यम् । नि:फलगौरवात् अवच्छेदकानां तावतामज्ञानेपि व्याप्तिबोधाच्च । गुणवान् द्रव्यत्वात् इत्यादौ साध्यतावच्छेदकं प्रतियोगितानवच्छेदकं स्यात् तादृग् रूपेण व्याप्तिग्रहः । पृथिवीत्वादौ गन्धव्यक्तिव्याप्यत्वे । साध्यतावच्छेदक तदवच्छेदकं यत्र प्रतियोगितावच्छेदकताऽनवच्छेदकमादायैव व्याप्तिग्रहः । दण्ड्यादौ परम्परया सम्बद्धं दण्डत्वादिकमेवावच्छेदकं, तथा च हेतुमन्निष्ठाभावप्रतियोगितानवच्छेदकं साध्यतावच्छेदकं यत् तत् अवच्छिन्नसामानाधिकरण्येन व्याप्तिग्रहः । साधनाधिकरणपदेऽपि साधनत्वावच्छेदकविशिष्टाधिकरणव्याख्यया साधनतावच्छेदकसम्बन्धेन साधनान्वये च अभावपि प्रतियोगिव्यधिकरणत्वेन विशेषणेन च व्याप्तिनिर्णये अननुगमात् । न चात्र व्याप्तेरननुगतत्वेपि तद् ज्ञानानां व्याप्तिपदवाच्यतावच्छेदकावगाहिज्ञानत्वेन हेतुत्वमिति वाच्यम् । यद्वा सम्बन्धज्ञानत्वेन तद्ज्ञानानां हेतुत्वमिति वाच्यम् । उभयत्रातिप्रसङ्गात् परामर्षरूपविशेषसामग्रीविलम्बेन अनुमित्यनुपपत्तेः । वस्तुतस्तु तद् तद् . १. रूपत्वव्याप्यजातिमद्वान् पृथिवीत्वादित्यादिवत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184