Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
तृतीयो विमर्शः
अथ उपाधिसाधितविमर्शः
साध्यव्यापकत्वे सति साधनाव्यापकः उपाधिः यथा आर्टेन्धनं उपाधिः अयोगोलकं धूमवत् वह्नः । यत्र यत्र धूमस्तत्र तत्र आर्टेन्धनाग्निसंयोगः । इति साध्यव्यापकत्वम् । यत्र यत्र वह्निस्तत्र तत्र न आर्टेन्धनाग्निसंयोगः शुष्कन्धनप्रयोगेऽपि वह्निसद्भावात् ।
अत्र प्रयोगे स श्यामो मित्रातनयत्वात् पूर्वजातषट्पुत्रवत् । शाकपाकजत्वमुपाधिः, न चायं शुद्धसाध्यव्यापकः । यत्र यत्र श्यामत्वं तत्र तत्र शाकपाकजत्वं इति नास्ति श्यामघटे व्यभिचारात्, तदा नरत्वं साधनधर्मः तदवच्छेदेन मित्रातनयत्वे व्यापकं श्यामत्वं, एवं साधनधर्मावच्छिन्नसाध्यव्यापकत्वं शाकपाकजत्वरूपे उपाधौ इति । अत्र प्रागुक्तलक्षणस्य अव्याप्तिशुद्धसाध्यव्यापकाभावात् । साधनधर्मावच्छिन्नसाध्यव्यापकस्य उपाधेरन्यत्वात् । अथ साधनावच्छिन्नसाध्यव्यापकत्वमुपाधित्वं विवक्षितमिति चेत् ? न, वायुः प्रत्यक्षः प्रमेयत्वात् इत्यादौ पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापके रूपवत्वादौ उपाधौ अव्याप्तेः । अथ पक्षधर्मावच्छिन्नसाध्यव्यापकत्वं विवक्षितमिति चेत् ? न, तत्रापि शाकपाकजत्वे अव्याप्तेः । यत् किञ्चित् धर्मावच्छिन्नसाध्यव्यापकत्वं विवक्षितं इत्यपि न, मूलानुमाने महानसात्वाभावस्य उपाधितापत्तेः, पक्षे पर्वते महानसत्वाभावस्य सत्वात् न च धूमव्यापकः धूमवति महानसे तदभावस्य असत्वात् ।।
अथ पर्यवसित साध्यव्यापकत्वे सति साधनाव्यापकत्वं उपाधित्वमिति यद् धर्मावच्छेदेन साध्यं प्रसिद्धं तदवच्छिन्नं पर्यवसितं साध्यं स च धर्मः क्वचित् साधनं क्वचित् द्रव्यत्वादि । क्वचिन्महानसत्वादि । इति चेत् ? तदपि न अननुगमात्, न च तृणारणिमणिन्यायेन तस्यापि गमकत्वमिति वाच्यम् । तथा गमकत्वेपि लक्षणे अन्योन्याश्रयात् । तथाहि-साध्यप्रसिद्ध्यवच्छेदकधर्मद्वारापर्यवसितत्वविशेषणसिद्धौ उपाधिलक्षणसिद्धिः तत्सिद्धौ पर्यवसितत्वविशेषणसिद्धिः, साध्यस्य विशेष्यस्य व्यभिचारपरिहारार्थं विशेषणस्य उपस्थापनात् शुद्धसाध्यव्यापके उपाधौ विशेषणवैयर्थ्याच्च । किञ्च साध्यप्रसिद्ध्यवच्छेदकधर्मस्य यावत्वं
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184