Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 162
________________ જિતેન્દ્ર બી. શાહ अत्राऽयं तादृशाभावः कैश्चिन्नेष्यते । तदाशयस्तु एवम् यदि गवि शशीयं शृङ्गं नास्तीति प्रतीत्या व्यधिकरणधर्मा' वच्छिन्नप्रतियोगिताकाभावोऽभ्युपेयः तदा पटत्वावच्छिन्न घटे घटत्वं नास्तीति प्रतीत्या व्यधिकरण धर्मावच्छिन्नाऽधिकरणताकोप्यतिरिक्तोऽभावोऽभ्युपेयः स्यात् । न चेष्टापत्तिरपसिद्धान्तत्वात् इति चेत् ? न, अधिकरणभेदेनाऽभावभेदाभावात् । किञ्च 'जातिप्रत्यासत्तिरधिकरणत्वम् २ इति माधवस्तच्च व्यधिकरणधर्मावच्छिन्नप्रतियोगिकेऽभावे नास्ति, नापि तादृशाधिकरणताकेऽपि । अभावे जातेः प्रत्यासत्तेरसम्भवात्, न चैकार्थसमवेतत्वप्रत्यासत्तिरपि भूतले घटाभावः । इत्यत्र भूतलस्वरूपात् अभावस्य स्वरूपेण भेदाङ्गीकारात् । अत्र तादृशाधिकरणताके अभावे स्वीक्रियमाणे, घटे घटत्वस्य सत्त्वात् । सविशेषणे विशेष्ये बाधे सति विधिनिषेधौ विशेषणमुपसंक्रामत इति न्यायेन तत्प्रतीतेः घटे पटत्वाभावमात्रविषयत्वापत्तिस्तेन न व्यधिकरणधर्मावच्छिन्नाऽधिकरणताकोऽभावः स्वीकार्य : इति । . तत्राऽपि परः प्राह हन्त ! एवं गवि श्रृङ्गस्य सत्त्वात् तत् प्रतीतेः सविशेषणे हीति न्यायेन श्रृङ्गे शशीयत्वाभावमात्रविषयत्वेन कथं व्यधिकरणधर्मावच्छिन्नाभावः सिद्ध्यति यस्योभयत्रतुल्यत्वात् । अत एव पाकरक्ते घटे इदानीमयं न श्याम इति धीः, श्यामत्वविशेषणमात्रस्याभावमवगाहते । तत एव यदित्वया गवि श्रृङ्गसत्त्वेऽपि प्रतियोगितावच्छेदकावच्छिन्नस्य अभावविरोधित्वात् शशीयत्वावच्छिन्न शृङ्गाभाव: स्वीक्रियते । तदा घटे घटत्वावच्छिन्नघटत्व सत्त्वेऽपि अधिकरणतावच्छेदकावच्छिन्ने प्रतियोगितावच्छेदकावच्छिन्नसत्त्वस्याभावविरोधित्वात्, पटत्वावच्छिन्ने घटे घटत्वाभावोप्यवश्यं अभ्युपेयः । इति चेत् ? न, कृतोत्तरत्वात् । अधिकरणद्वारा अभावभेदानङ्गीकारे अधिकरणतावच्छेदकावच्छिन्नत्वेन अभावस्य दुर्घटत्वात् । [ यदपि प्रतियोग्यवृत्तिः धर्मो न प्रतियोगितावच्छेदकः तत्रापि अवच्छेदकं विशेषणता विशेषः । तद्द्द्विधासमानाधिकरणं अन्यूनानतिरिक्तवृत्तिः । धूमे धूमत्ववत् द्वितीयं व्यधिकरणं भूतलं घटाभाववत्, अत्र स्वरूपसम्बन्ध एव तेन वाच्यत्वे प्रतियोगिनि समवायित्वाभाव एव धर्मोवच्छेदक: स्वरूपत एव तत् प्रतियोगितावच्छेदकं समवायित्वं व्यधिकरणं अभावे स्वरूपसम्बन्धेन ।] 156 - Jain Education International - १. शशीयत्वं चर्मणि प्रसिद्धं श्रृङ्गे तु तत् असदेव भ्रमविभ्वत्वेन अन्ययाख्यातं वा अवच्छेदकं । शुक्तौ इदं रजतं अत्र असदपि रजतत्वं धर्मिणि अवच्छेदकम् । २. सामान्यादौ जातिप्रत्यासत्तेरभावात् । प्रमेयं सामान्यमभिधेयं सामान्यमिति प्रत्यगो नोपपद्यते । सामानाधिकरण्याभावात् । संयोगादिसम्बन्धाभावात् सामान्यादौ प्रमेयत्वस्य अनधिकरणत्वमेवेति चेत् ? न, साक्षाज्जातिसम्बन्धाभावेऽपि परम्परया जातिसम्बन्धात् प्रमेयं सामान्यमभिधेयं सामान्यमिति व्यपदेशः । ततः सामान्यादौ प्रमेयत्वं अभिधेयत्वं औपचारिकमेव । उपचारोऽपि कुत्रचित् सतो वस्तुतः । न पुनः सार्वत्रिकार्थस्य गगनवत् । एवमपि प्रमेयत्वं न सर्वत्र सिद्धम् । For Personal & Private Use Only SAMBODHI www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184