Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 163
________________ Vol. XXVI, 2003 चिन्तामणिपरीक्षा : प्रथमो विमर्शः 157 अथ व्यधिकरणधर्मावच्छिन्नाभावस्य प्रतियोगी सर्वथा असन्नेवेति कथं व्यधिकरणधर्मावच्छेदेन तस्य सत्त्वम् ? तथा च ग्रामो नास्ति कुतः सीमा ? इति । न हि नपुंसकमुपचारशतेऽपि अपत्यो नायालमिति चेत् ? न, [अभिधेयेन वृत्तिमत् प्रमेयत्वेन व्याप्तिः, परं वृत्तिमत्पदस्य व्यभिचाराऽवारकत्वात् । प्रमेयत्वेन व्याप्तिग्रहः तथा समवायित्वस्य अप्रसिद्ध्या वाच्यत्वमात्रस्येव शशीयत्वं विहाय] श्रृङ्गत्वस्यैव प्रतियोगित्वात्, तत्र च व्यधिकरणधर्मोऽवच्छेदकः । तथा च तद्वैशिष्ट्यज्ञानं तत्रान्यथाख्यातिरूपमेव । यथा कपालेषु घटस्य समवाये न वृत्तिः । परं संयोगसम्बन्धविशिष्टघटस्याभाव एव । एवं [लाघवात् प्रतियोगित्वेनैव अभावविरोधित्वं न तु प्रतियोगितावच्छेदकावच्छिन्नत्वेन । अतएव घटवति घटपटौ न स्तः इति व्यासज्यवृत्तिप्रतियोगिकोऽभाव एक घट प्रतियोगिको न सिद्ध्यतीति ।] प्रतियोग्यधिकरणसंसर्गज्ञाने इव तद्व्यधिकरणधर्मावच्छिन्नप्रतियोगि ज्ञानस्य आहार्यस्यैव तत्रोपयोगित्वात् । अथाधिकरणे प्रतियोगि संसर्गारोपपूर्विकैव संसर्गनिषेधप्रतीतिरुत्पद्यते । न च गवि श्रृङ्गसंसर्गारोपः सम्भवति । तस्य गवि सत्त्वादेव, तथा च तत्र श्रृङ्गाभावप्रतीतिः कथमित्यपि न वाच्यम् । न हि प्रतियोगि संसर्गारोपत्वेन तत्र हेतुत्वम् । किन्तु भ्रमप्रमासाधारण्येन प्रतियोगिसंसर्गिज्ञानत्वेनैव अभावधीहेतुत्वम् । एवञ्च शशीयत्वस्यैव प्रतियोगितावच्छेदकत्वात् श्रृङ्गत्वभानसामस्त्या च प्रतियोगिनि श्रृङ्गत्वमपि भानमिति शशीयत्वमिह नास्तीति न प्रतीतिः, किन्तु तदवच्छिन्ने श्रृङ्गरूपे प्रतियोगिनि अभावप्रतीतिः । न हि प्रतियोगितावच्छेदकमात्रमेव प्रतियोगिनि भासते, प्रमेयो घटो नास्तीत्यत्र अतादृशस्य अप्रतियोगितावच्छेदस्यापि प्रमेयत्वस्य घटे भानात् इत्याद्यधिकमाकरप्रकाशे । एवं वाच्यत्वं न क्वचित् समवेतमिति, अत्र व्यधिकरणधर्मावच्छिन्नाभावसिद्धौ [गगनारविन्दं सुरभीत्यत्राप्याश्रयासिद्धिः तादृशाभावेन ज्ञेया, तत एवाग्रे यो कमलमिति निश्चितानन्वयवत्त्वेन अपार्थिकमिति । तत] प्रत्यादिष्ठा केवलान्वयिता। तदभावे केवलव्यतिरेकिताप्यस्ता । तथा च हेतुसमानाधिकरणात्यन्ताभावाऽप्रतियोगिता वच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति श्रीगङ्गेशोपाध्यायादिष्टं उत्तरपक्षलक्षणं · स्पष्टप्रतिष्ठं निष्टङ्कितमिति । अस्मन्मते तु अविनाभावो' व्याप्तिरिति लक्षणम् । तदर्थस्तु हेतोः धूमस्य साध्येन वह्निना विना न भावः विना व्यतिरेकेण न भावः२ इति पर्यवसन्नः । अविना अन्वयेन धूमज्ञानाद् वह्निज्ञानरूपेण भाव इति । एतावताकरोक्तोत्तरपक्षलक्षणे केवलान्वयिताद्यतिरिक्ततादिपदेन लक्षणसमन्वयः कार्यः । इति श्रीमणिपरीक्षायां व्याप्तिलक्षणपरीक्षा प्रथमविमर्शः सम्पूर्णः १. अविनाभावः, साध्येन विनाभावः, साध्येन न विनाभावः इति वा उभयत्र केवलान्वयिनि अव्याप्तिः, तत्तन्मध्ये । २. साध्यव्यतिरेके न भवतीत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184