Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
154
જિતેન્દ્ર બી. શાહ
SAMBODHI
एवञ्च केवलान्वयिसाध्यके हेतौ साध्यव्यापकस्य व्यतिरेकिणो धर्मस्य आकाशाद्यत्यन्ताभावस्य सत्त्वात् व्यतिरेकिणि परम्परयान्वयं विनाऽगमकत्वात् हेतुत्रैविध्यं बाध्यता सामान्यतः प्रतियोग्यसमानाधिकरणेत्यादिकं व्याप्तेरुत्तरपक्षलक्षणं त्यज्यतां इति प्रतिवन्दीतर्कः ।
किञ्च प्रतियोग्यसमानाधिकरणेति अत्यन्ताभावविशेषणं संयोगादिसाध्यकद्रव्यत्वादि (?द) निष्टव्याप्तावव्याप्तिवारणाय इत्यपि चिन्त्यम् । इदं संयोगिद्रव्यत्वात् इत्यत्र मूलावच्छेदेन यथा नरसंयोगो वृक्षे शाखावच्छेदेन तदभाव एव संयोगस्य अव्याप्यवृत्तित्वात् । यत्र यत्र द्रव्यत्वं तत्र तत्र संयोगस्तदत्यन्ताभावोऽपि एतद् वृक्षत्वावच्छेदेन उभयं व्यक्तमेव। अथाऽयं अवच्छेदकभेदाद्भिन्न एव विशेषाभावरूपत्वात् संयोगसामान्याभावस्तु वृक्षान्तरवृत्तिः, स तु प्रतियोग्यसमानाधिकरण एवेति कथं लक्षणेऽव्याप्तिरिति चेत् ? न, अधिकरणभेदेन अभावभेदाभावात् । विशेषाभावस्थलेऽपि सामान्याभावस्य सत्त्वाच्च । वायौ यावद् ।' विशेषरूपाभावनिर्णयेऽपि वायौ रूपं न वेति संशयान्यथानुपपत्त्या सामान्याभावः पृथंगेव इति व्यक्तमाकरे ।
न हि एतद्वक्षवृत्तिसंयोगसामान्याभावात्वृक्षान्तरवृत्तिसंयोगसामान्याभावोऽन्य एवेति वक्तुं शक्यम् । तथा च अवच्छेदकभेदाद् भेदः । अधिकरणान्तरेऽपि प्रतियोगिनः संयोगरूपस्य एकत्वात् अभेद इत्यागतं इति चेत् ? न, भेदाभेदस्यापि इष्टत्वात् । तत एवावच्छेदकभेदेन विरुद्धयोरप्येकत्रवृत्तिर्न विरुद्धा इति रुचिदत्तरुचिरवच्छेदकलक्षणविमर्श व्यक्तैव । न चैवं स्याद्वादमतापत्तिः परमाणुरूपा नित्या भूः कार्यरूपा तु अनित्या पार्थिवत्वावच्छेदेन उभयरूपतायां विषयभेदेन स्वीकृतत्वात् ।।
तद्विचारे अर्थान्तरत्वाच्च । प्रकृते तु प्रतियोग्यसमानाधिकरणत्वस्याऽनिश्चयात् व्यर्थं विशेषणं लक्षणेऽभवत् । न द्वैयर्थ्ये विशेष्यस्यापि असामर्थ्यात् विशेषणाभावे विशिष्टस्यापि अभावाच्च ।
नित्यः शब्दः द्रव्यत्वे सति अस्पर्शवत्वात् इति प्रयोगवत् इति कृतं विस्तरेण ।
केवलान्वयि साध्यमपि अन्वयव्यतिरेकिवत् साध्यसामानाधिकरण्यं निश्चितम् । केवलव्यतिरेकिण्यपि परम्परया
तन्नियमात् वैविध्यं उक्तमेव । २. अत्राद्यणावच्छिन्ने घटे द्रव्यत्वं संयोगाभावाद् व्यभिचारः । ३. अन्ये तु अप्रतियोगिभेदेन अभावभेदाप्युगमे घटप्रतियोगिकानां चतुर्णामभावानामभेदः स्यात् इति, तत्काल
तत्संसर्गतादात्म्यात्मकावच्छेदकभेदेन तत्र भेदः सर्वसम्मतः इति सामान्यस्यावच्छेदकस्य सत्त्वे तदवच्छिन्नाभाव आवश्यक एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184