Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
152
જિતેન્દ્ર બી. શાહ
SAMBODHI
चारिसाधारण्यात्, तत्रातिव्याप्तिस्तद्वारणाय अप्रतियोगीति । तथापि निर्घटं वहिनमन्तं पर्वतं पक्षीकृत्य अयं वह्निघटरूपद्वयवान् एतद्धृमवत्वादिति साधयति, तत्रातिव्याप्तिस्तद्वारणाय अप्रतियोगितावच्छेदकावच्छिन्ना इति, अत्र द्वित्वावच्छिन्नाभावस्यैव प्रतियोगितावच्छेदकावच्छिन्नत्वात् अवच्छेदकं अनतिरिक्तवृत्तित्वं, एवमपि अप्रतियोगित्वस्य सापेक्षत्वेन हेतुसमानाधिकरणात्यन्ताभावेति तावत्युक्ते अयमेतत् संयोगी एतद् वृक्षत्वात् इति अव्याप्तिः तद्वारणाय अप्रतियोग्यसमानाधिकरणेऽत्यन्ताभावविशेषणमिति पर्यवसन्नम्, उत्तरपक्षलक्षणम् ।
अत्राऽयं विमर्शः - केवलान्वयिनि अव्याप्तमिदं लक्षणं अभावघटितव्याप्तेः केवलान्वयिनि [अविनाभावो हि साध्येन विनाभावः यद्वा साध्येन न विनाभावः इति वा उभयत्रापि केवलान्वयिनि साध्याभावाऽप्रसिद्ध्या तदप्रसिद्धरित्यर्थः ।] अप्रसिद्धः न हि विशेषोऽभिधेयः प्रमेयत्वादित्यत्र साध्यस्याऽभिधेयत्वस्य क्वाप्यत्यन्ताभावः संभवी तस्य सार्वत्रिकत्वात्, न च विशेषस्य पक्षतादशायां सन्दिग्धत्वेन आरोप्यमाणाभावविषयत्वमभिधेयत्वस्याप्यस्तीति वाच्यम्, तद्दशायामपि तस्य सन्दिग्धत्वेन भ्रान्त्या वा आहार्यरूपेणापि अभिधेयत्वात् सिसाधयिषा विरह सह कृत सिद्ध्यभावः । पक्षता इति पक्षलक्षणेऽपि पक्षतादशायां साध्यत्वे अभिधेयरूपार्थस्य अभिधेयत्वात् । अतएव रुचिदत्त रुचिः प्रतियोगिज्ञानमाहार्य्यमेव तादृशस्थले उपयोगीति । सिसाधयिषा इत्यादि नव्यनैयायिकलक्षणं तु विचार्यमेव । "गगने घनगजितेन सिसाधयिषां विनापि मेघानुमानात् ।" एतल्लक्षणस्याऽप्रयोजकत्वात्, यदि अभिधेयप्रमेयादयो धर्मा अपि अभावप्रतियोगिनः स्युस्तहि केवलान्वयिन एव न स्युरिति विपक्षे बाधकस्तर्कः । तेन केवलान्वयिनि साध्यसाधनयोः सामानाधिकरण्यज्ञानस्य वृत्तिमत्त्व ज्ञानस्यैव कारणत्वात् तत्रानुमितिः ।
अथ उत्तरपक्षलक्षणेऽव्याप्तिदोषनिषेधाय व्यधिकरणधर्मावच्छिन्नाभावांगीकारेण समाधत्ते । ननु धूमवति महानसादौ समवायसम्बन्धावच्छिन्न वल्यभावमादाय तदत्र प्रतियोगिरूपेण साध्यसामानाधिकरण्यमत्त्वेवेति नाव्याप्तिरिति चेत् ? न, सूत्रकृन्मते तदनंगीकारात् । यत् पुनः केवलान्वयिनि तादृशसामानाधिकरण्याभाववत्त्वं गगनादौ प्रसिद्धम् । अभिधेयत्वप्रमेयत्वादिधर्माणां गगने असामानाधिकरण्यं गगनस्य क्वाऽपि अवृत्तेः वृत्तिराधेयता' गगने सर्वस्य आधारत्वात्, न च तत्र व्याप्तिरेव नेति वाच्यम्, तत्रानुमानप्रवृत्तेः निष्कलङ्कत्वेन प्रमेयत्वाद्यवच्छेदेनैव गृह्यमाणायाः वृत्तिमति प्रमेयेऽभिधेयव्याप्तेरवश्यवाच्यत्वात् इति चेत् ? न, १. इदमपि अयुक्तं, वर्ततं वृत्तिः, अस्तित्व धर्मः । स्वरूपवृत्तेः स्वस्मिन्नेवभावात् गगने घटादिवृत्तिव्यवहारिकी
निश्चिता तु स्वस्मिन्नेव स्ववृत्तिरिति अधिकं स्थानाङ्गवृत्तौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184