Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 157
________________ 151 Vol. XXVI, 2003 चिन्तामणिपरीक्षा : प्रथमो विमर्शः यथान्वयव्यतिरेकीत्यनुमानेन तत्रान्वयसाधनात् । तेनैव सकलपृथिव्या इतरभेदे साध्ये घट एव दृष्टान्तोस्तु इति नैयायिकोत्तंसा उदयनाचार्याः प्राहुरिति । किञ्च नैयायिकमते प्राणादिमत्त्वावच्छेदेनैव सात्मकत्वं साध्यं, अन्यथात्मनो विभुत्वेन सर्वत्र सात्मकत्वप्रसङ्गः । एवञ्च प्राणादिमत्वे साधनबलादेव सात्मकत्वसिद्धि इत्यन्तर्व्याप्तिरिति ॥छ।। अथ न्यायाङ्गमुख्यत्वात्, व्याप्तौ किञ्चिद् विचार्य नो । चिन्तामणौ श्रीगङ्गेशो-पाध्यायोक्तेऽस्य सन्निधेः ॥१॥ ननु व्याप्तिज्ञानं विना नाऽनुमितिः । व्याप्तिज्ञानं करणं परामर्षो व्यापारः अनुमितिः फलमिति श्रीगङ्गेशवाग्निवेशः श्रीपञ्चाननगम्भीरध्वनिना प्रतिशब्दितः । चिन्तामणौ उत्तरपक्षलक्षणम् । प्रतियोग्यसमानाधिकरणं यत् समानाधिकरणात्यन्ताभाव प्रतियोगिकावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः । पर्वतोऽयं अग्निमान् धूमात् इत्यत्र धूमस्य वह्नः समानाधिकरण्यं, धूमोऽत्र व्याप्यः वह्निर्व्यापकस्तयोः सम्बन्धो व्याप्तिरिति । प्रथम यत् पदेन हेतुधूमः तत्समानाधिकरणोऽत्यन्ताभावः पटादेरभावः तस्य प्रतियोगिता विरोधित्वं, तत्र अवच्छेदकं अनतिरिक्तवृत्तिविशेषणताविशेषः पटत्वं तेन अवच्छिन्नं पटत्वविशिष्टम् । द्वितीय यत्पदेन अर्थरूपं न भवति तेन अर्थलक्षणेन इह साध्य इति परिभाषणीयेन वह्निना समं सह सामानाधिकरण्यम् । एकाधिकरणवृत्तित्वं व्याप्तिरित्यर्थः । एवं धूमस्य वह्निना व्याप्तिरुक्ता । फलिता च । हेतुना धूमेन एकाधिकरणो वढेरत्यन्ताभावो न स्यात्, यद्यपि महानसादिनिष्ठवढेधूमवत् पर्वतवृत्ति अत्यन्ताभावप्रतियोगित्वमस्ति । पर्वते महानसीयो वह्निर्नास्तीति प्रतीतेः, तथापि तस्य प्रतियोगिता महानसीयत्वेन अवच्छिद्यते न पुनः सामान्यतो वह्नः । विशेषाभावे महानसीयत्वादिविशेष एव [तदवच्छेदकः] विशेषाभावेभ्यः सामान्याभावोऽन्य एव, [विशेषाभावे यत् किञ्चित्वेन तथा सामान्याभावे यावत्त्वेन] च विषयताभेदात्, यत्किञ्चित् इष्टभक्ष्याभावात्, यावद्भक्ष्यभावस्य भेदानुभवात् । वह्निसामान्याभावे प्रतियोगितावच्छेदकं वह्नित्वमेव । धूमसमानाधिकरणानां पटादेरत्यन्ताभावानां पटत्वादि एव प्रतियोगितावच्छेदकं न तु वह्नित्वम् । तेन वह्नित्वाऽवच्छेदकावच्छिन्नो वह्निरेव तेन धूमस्य वह्निना व्याप्तिरिति सिद्धम् । अथाऽत्र पदकृत्यानि । तेन साध्येन समं तस्य हेतोऽसामानाधिकरण्यं व्याप्तिरित्युक्ते नित्यः शब्दः प्रमेयत्वात् इत्यादावतिव्याप्तेस्तद्वारणाय प्रतियोगिता इति । तथापि यत्किञ्चिन्महानसीयादिवढेरधिकरणत्वावच्छेदेन तदत्यन्ताभावस्य धूमसामानाधिकरण्येन व्यभि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184