Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 156
________________ 150 જિતેન્દ્ર બી. શાહ SAMBODHI अनभिधेयत्वस्य वस्तुपदादिशक्यत्वकथनेन अभिधेयत्वस्य स्पष्टत्वात् । मणिकृताऽपि मूले अभिधानेऽनभिधाने च विपक्षत्व व्याघातात्, इत्यत्र पक्षद्वयोपन्यासेन विपक्षद्योतनाच्च । यत् पुनः येनैव पदेन यस्याभिधानं तत्पदं शक्तिविषयत्वादेव न विपक्षत्वं, अनभिधाने वस्तुपदादेरप्यनभिधेयतयाऽवस्तुत्वादेव न विपक्षत्वं इति व्याख्यानम् । तत्रापि वस्तुपदादेरप्यनभिधेयता प्रसङ्ग इत्यस्यामुक्तौ यदि निरग्निः स्यात् तहि निधूमत्वं स्यात् इत्यादिवत् अनभिधेयत्वारोपेण अभिधेयत्व प्रतीयार्थ एवारोपितः न हि क्वापि असन्नर्थः आरोप्यते, तत. एव व्याख्यायां पदा शक्यत्वेऽपि पदजन्यज्ञानविषयत्वात् विपक्षत्वस्य वस्तुत्वस्य शङ्काऽपि सिद्धाः । मूलेऽपि यथा गौरित्युक्ते श्रृङ्गादिमत्वं अनभिहितमप्युपतिष्ठते, यथा वा आकाशशब्दात् शब्दाश्रयत्वं अनभिधेयमप्युपतिष्ठेत् तथाऽभिधेयत्व विपक्षस्याऽनभिधेयत्वेपि पदा उपस्थितिः स्यात् । एवञ्च अभिधेयत्वं कुतोऽपि व्यावृत्तं धर्मत्वात्' गोत्ववदिति, अनभिधेयत्वाद् व्यावृत्तस्य अभिधेयत्वस्य सिद्धिः, तत्सिद्धौ तद्विपक्षस्य सिद्धिः । एवञ्च विशेषोऽभिधेयः प्रमेयत्वात् इत्यनैकान्तिक एव अभिधेयेऽपि प्रमेयत्वात् । यद्वा शाब्दप्रमेयत्वादिति अन्वयव्यतिरेकीहेतुः, [अतएव चिन्तामणिप्रकाशे वृत्तिमत् प्रमेयत्वं हेतुरिति] । एवं प्रमेयत्वमपि सविपक्षं प्रमाविषयस्य प्रमेयत्वात् संशयभ्रमादि अप्रमाविषयस्य अप्रमेयत्वात् एवं ज्ञेयत्वमज्ञेयत्वमपि सविपक्षम् । परमाण्वादीनामस्मदादिप्रत्यक्षेणाऽज्ञेयत्वं योगिप्रत्यक्षेण ज्ञेयत्वमपि । ईश्वरस्य केवलिनो वा ज्ञेयसर्वपदार्थस्य ज्ञेयत्वेऽपि याथार्थ्येन ज्ञेयत्वं, अयथार्थत्वेन अज्ञेयत्वमपीति स्याद्वादो विजयताम् ॥२॥ द्वितीयं वादस्थलम् असत् सपक्षः केवलव्यतिरेकीहेतुः । अत्राप्ययं विमर्श:-जीवच्छरीरं सात्मकं प्राणादिमत्वात्, इत्यत्र तथैवोपपत्तेरित्यन्ताप्त्यैव साध्यसिद्धेः । यद्वा पक्षान्तर्भूत एव कश्चित् चैत्रादिरन्वये दृष्टान्तः निश्चितसाध्यत्वस्यैव प्रयोजकत्वात् पक्षान्यत्वस्याऽतंत्रत्वात् । सात्मकत्वे साध्ये प्राणादिमत्वं हेतूकृतं तदन्वयि । साध्याभावव्यापकीभूताभावप्रतियोगित्वात्, यदेवं तदेवं १. "जातिप्रत्यासत्तिरधिकरणत्वं ।" [सप्तपदार्थी पृ. ९३] यद्वा जातिसम्बन्धेन अधिकरणनिष्ठो धर्मः । २. प्रमेयत्वादेरपि जातित्वात, प्रमात्वमेव प्रमाविषये घटादौ स्वरूपसम्बन्धेन वर्तमानं प्रमाद्वारा परम्परया उपाधिरूपजातिव्यपदेशभाक् प्रमेयत्वम् । एवं अभिधात्वमेवाभिधेयत्वं, मितभाषिण्याम् । [पृ० ९३] ३. अभिधेयत्वं भगवदिच्छारूपशक्तिविषयत्वं, तच्च सर्वत्र सर्वस्य भगवदिच्छाविषयत्वात् वस्तुपदशक्यत्वाच्च । एवं ज्ञेयत्वं ज्ञानविषयत्वं तच्च सर्वत्र सर्वस्य भगवद्ज्ञानविषयत्वात् । एवं प्रमेयत्वं प्रमाविषयत्वं तत् सर्वत्र सर्वस्य भगवत्प्रमाविषयत्वात् । इति सिद्धान्तमञ्जर्याम् । [पृ० ९४] तत्रापि अस्मदाद्यप्रमेयत्वमेव । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184