Book Title: Sambodhi 2001 Vol 24
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad
________________
Vol.XXIV,2001
॥ मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ।।
107
107
॥ इति श्रीअभिनन्दननाथस्तवनम् ॥४॥ ॥ श्रीसुमतिनाथस्तवनम् ॥५॥ (उपजाति) मेघभूपकुलदीपमुज्ज्वलं मङ्गलाङ्कगगनार्क मण्डलम् । पञ्चमं सुमतिनामतीर्थपं संस्तुवे त्रिविधबोधदेशकम् ॥१॥ येन्द्रियाधिकतया विशेषतोऽनेकधोल्लसति बुद्धिरङ्गिनाम् । सैव देव ! तव सेवकर्षिभिर्भाष्यते प्रथमबोधनामत: ॥२॥ तीर्थनाथ ! तव भाषितागमप्रोक्ततत्त्वपरमार्थबोधतः । ज्ञाननामकममे यमुज्ज्वलं बोधमाहुरपरं महर्षयः ॥३॥ आगमार्थमवगम्य निश्चितं ज्ञाततत्त्वपरिशीलनस्पृशाम् । त्वत्प्रणीतपथचारिणामसम्मोहबोधमयतैव जायते ॥४॥ आद्यबोधमिह तारतम्यतः पूर्वमापममप्यने कशः । साम्प्रतं तु सुमते ! तथा कुरु स्यां यथा त्रिविधबोधवानलम् ॥५॥
॥ इति श्रीसुमतिनाथस्तवनम् ॥५॥ ॥ श्रीपद्मप्रभनाथस्तवनम् ॥ उपजाति ॥ वैराग्यपूरेण मनोनिशान्ताद् रागस्त्रिरूपोऽपि बहिर्निरस्तः । यं सेवते कान्तिमिषेण देवं पद्मप्रभं तं प्रयतः प्रणौमि ॥१॥ हारिद्ररागेण समो जनानां मायांसुकात् स्नेहमयोपरागः । त्वद्ध्यानसूर्यातपसम्भवोड्डी, क्षणात् समुड्डीयत एव देव ! ॥२॥ कौशुम्भरागोपमकामरागो, देदीप्यते लोकमनःपटेषु । तावद् विभो ! त्वन्महिमाम्बुपूरैः प्रक्षाल्यते देव ! न यावदेव ॥३॥ ताम्बूलरागप्रतिमोऽपि दृष्टे रागो मनश्चेलमितोऽतिगाढम् । प्राप्तत्वदुक्तागममातुलिङ्गरसैन कैस्कैरपनीयते स्म ॥४॥ एवं त्रिभेदोऽपि जिनेन्द्रपद्मप्रभप्रभो ! रागविशेष एषः । नर्ते प्रसत्तिं तव जीयते (?)त ततो द्रुतं देव ! मयि प्रसीद ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162