Book Title: Sambodhi 2001 Vol 24
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 119
________________ 114 SAMBODHI संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा. ॥ श्रीमल्लिनाथस्तवनम् ॥१९॥ (इन्द्रवज्रा) श्रीकुम्भभूपालकुलप्रदीपं, भवार्णवे विस्तृतमन्तरीपम् । उत्खातशल्यत्रयवल्लिमूलं ध्यायामि मल्लिं स्वमनोऽनुकूलम् ॥१॥ अप्यल्पमात्रेण बलं स्वकीयं प्रादर्शि येन प्रसभं भवत्सु । तन्नाथ ! मायामयशल्यमस्मादृशैर्वराकैरपि जीयते किम् ? ॥२॥ येनान्त्यचक्रीश्वरनन्दिषेणमुख्याङ्गिनो दुर्लभबोधिकत्वम् । सम्प्रापितास्तत्र निदानशल्येऽयस्कान्तिरलं ... (हि ?) तवोपदेशः ॥३॥ प्राप्यापि बोधिं विरतिं च जीवा मरीचिवद् येन भवं भ्रमन्ति । तन्मे हृदिस्थं जिननाथ ! मिथ्यादृक्शल्यमाकर्षय सूत्रमन्त्रैः ॥४॥ शल्यत्रयं तावदिदं जनानां हृदि प्रविष्टं कुरुते प्रपीडाम् ।। मल्ले ! नमल्लेख ! तव प्रणामसंदंशकेनाद्रियते न यावत् ॥५।। ॥ इति श्रीमल्लिनाथस्तवनम् ॥१९॥ ॥ श्रीसुव्रतनाथस्तवनम् ॥२०॥ (इन्द्रवज्रा) सुमित्रधात्रीशभवं भवन्तं, यो ध्यायति ध्याननिलीनचित्तः । , चिन्तातुराणां प्रसरं निवार्य, स सुव्रतः सुव्रत ! सम्मतस्ते ॥१॥ पूर्वानुभूतिस्मृतिमात्रजातानसन्तानमय करूपाम् । योऽतीतचिन्तामधमां ननिन्द, स सुव्रतः सुव्रत ! सम्मतस्ते ॥२॥. योऽनागतार्थनुगतां च चिन्तां विमध्यमां सार्थनिरर्थकत्वात् । प्रत्याचचक्षेऽतिविशुद्धचेताः, स सुव्रतः सुव्रत ! सम्मतस्ते ॥३॥ स्वभावसूक्ष्मस्थितिवर्तमानकालप्रचारां जिननाथ ! चिन्ताम् । यश्चोत्तमाख्यामपि संवृणोति, स सुव्रतः सुव्रत ! सम्मतस्ते ॥४॥ इति त्रिकालप्रभवामपीमां चिन्तां महामोहमयीमपास्य । अचिन्त्यरूपे त्वयि लीयते स्म, स सुव्रतः सुव्रत ! सम्मतस्ते ॥५॥ ॥ इति श्रीसुव्रतनाथस्तवनम् ॥२०॥ १. अत्र सातागौरवनिरूपकं पद्यं प्रतिलेखकेनानवधानाद् लिखितं नास्ति ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162