________________
114
SAMBODHI
संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा.
॥ श्रीमल्लिनाथस्तवनम् ॥१९॥ (इन्द्रवज्रा) श्रीकुम्भभूपालकुलप्रदीपं, भवार्णवे विस्तृतमन्तरीपम् । उत्खातशल्यत्रयवल्लिमूलं ध्यायामि मल्लिं स्वमनोऽनुकूलम् ॥१॥ अप्यल्पमात्रेण बलं स्वकीयं प्रादर्शि येन प्रसभं भवत्सु । तन्नाथ ! मायामयशल्यमस्मादृशैर्वराकैरपि जीयते किम् ? ॥२॥ येनान्त्यचक्रीश्वरनन्दिषेणमुख्याङ्गिनो दुर्लभबोधिकत्वम् । सम्प्रापितास्तत्र निदानशल्येऽयस्कान्तिरलं ... (हि ?) तवोपदेशः ॥३॥ प्राप्यापि बोधिं विरतिं च जीवा मरीचिवद् येन भवं भ्रमन्ति । तन्मे हृदिस्थं जिननाथ ! मिथ्यादृक्शल्यमाकर्षय सूत्रमन्त्रैः ॥४॥ शल्यत्रयं तावदिदं जनानां हृदि प्रविष्टं कुरुते प्रपीडाम् ।। मल्ले ! नमल्लेख ! तव प्रणामसंदंशकेनाद्रियते न यावत् ॥५।।
॥ इति श्रीमल्लिनाथस्तवनम् ॥१९॥ ॥ श्रीसुव्रतनाथस्तवनम् ॥२०॥ (इन्द्रवज्रा) सुमित्रधात्रीशभवं भवन्तं, यो ध्यायति ध्याननिलीनचित्तः । , चिन्तातुराणां प्रसरं निवार्य, स सुव्रतः सुव्रत ! सम्मतस्ते ॥१॥ पूर्वानुभूतिस्मृतिमात्रजातानसन्तानमय करूपाम् । योऽतीतचिन्तामधमां ननिन्द, स सुव्रतः सुव्रत ! सम्मतस्ते ॥२॥. योऽनागतार्थनुगतां च चिन्तां विमध्यमां सार्थनिरर्थकत्वात् । प्रत्याचचक्षेऽतिविशुद्धचेताः, स सुव्रतः सुव्रत ! सम्मतस्ते ॥३॥ स्वभावसूक्ष्मस्थितिवर्तमानकालप्रचारां जिननाथ ! चिन्ताम् । यश्चोत्तमाख्यामपि संवृणोति, स सुव्रतः सुव्रत ! सम्मतस्ते ॥४॥ इति त्रिकालप्रभवामपीमां चिन्तां महामोहमयीमपास्य । अचिन्त्यरूपे त्वयि लीयते स्म, स सुव्रतः सुव्रत ! सम्मतस्ते ॥५॥
॥ इति श्रीसुव्रतनाथस्तवनम् ॥२०॥ १. अत्र सातागौरवनिरूपकं पद्यं प्रतिलेखकेनानवधानाद् लिखितं नास्ति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org