________________
Vol. XXIV. 2001
। मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥
115
॥ श्रीनमिनाथस्तवनम् ॥२१॥ (उपजाति) नम्राऽखिलाऽऽखण्डलमौलिमाला ववे सहसावलिसङ्गचङ्गम् । पदाम्बुजं श्रीनमिनाथतीर्थेश(शि)तुः स्तुवे सत्त्वगुणाढ्यलाभम् ॥१॥ शक्तः क्षमावान् धनवानुदारो विभुर्विवेकी गुणवानगर्वः परोपकारी च सुधीर्नरः स्यात् तवोदितात् त(स)त्वगुणाज्जिनेश ! ॥२॥ भोगाङ्गसङ्गोल्लसिनाभिमानस्त्रिवर्गसंसाधनसावधानः । यद्विभ्रमां भ्रान्तिमना जनः स्याद्, रजःस्वभावां तदुदाहरस्त्वम् ॥३॥ तवागमे सत्यपि यजनोऽयं नारीधनादावतिलुम्बचेताः । सदा परद्रोहपरायणः स्यात्, तत्तामसत्वं प्रथयन्ति सन्तः ॥४॥ नमे ! तव ध्यानदिवाकरो मे रजस्तमस्तोममपास्य दूरात् ।। उल्लासयत्युत्तमसत्त्वपऱ्या यथा तथा नाथ ! मयि प्रसीद ॥५॥
॥ इति श्रीनमिनाथस्तवनम् ॥२१॥
॥ श्रीअरिष्टनेमिस्तवनम् ॥२२॥ (उपजाति) यस्योज्जयन्तावपि चूलिकायां कल्याणकानां त्रितयं बभूव । श्रीयादवानन्दकरं जिनेन्द्रमभिष्ट वेऽहं तमरिष्टनेमिस् ॥१॥ भवान् विभो ! रैवतकेऽत्र शैले राजीमती राज्यमतिं च मुक्त्वा। आबालकालादपि शुद्धशीलो जग्राह दीक्षां शिवदानदक्षाम् ॥२॥ तां क्षायिकी श्रेणिमवाप्य शुक्लध्यानान्तराले हतघातिकर्मा । लेभे भवानत्र गिरौ गरीष्ठे सत्केवलज्ञानमपि प्रधानम् ॥३॥ इहैव शैलेऽनशितो हि मासं कृत्वा समुद्धातनयोगतां च । कर्मांशमुक्तः समयेन सिद्धिं नित्यां सदानन्दमयीमितोऽसि ॥४॥ इत्थं गिरौ यो गिरनारनाम्नि कल्याणकानां त्रितयं ततान । देवः स रत्नत्रयदानपूर्व संघस्य शस्यास्पदसम्पदेऽस्तु ॥५॥
॥ इति श्रीअरिष्टनेमिस्तवनम् ॥२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org