SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 116 SAMBODHI . संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा. ॥ श्रीपार्श्वनाथस्तवनम् ॥२३॥ (उपजाति) कलावपि श्रीकलिकुण्डमन्त्रयन्त्रप्रयोगाः प्रकटप्रभावाः ।। स्फुरन्ति यद्ध्यानबलेन पुंसां, श्रीपार्श्वनाथं तमहं नमामि ॥१॥ . यस्मिन् मनोन्तःस्फुरति प्रदीपोपमे तमोध्वंसिनि सदृशां स्यात् । चिन्तामणिस्फूर्तिमयस्फुटैव, श्रीपार्श्वनाथं तमहं नमामि ॥२॥ मन्त्राधिराजाक्षरसङ्गचङ्गं यं ध्यायतां षड्दलपद्ममध्ये । पुंसां वशे स्युर्विजयाजयाद्याः, श्रीपार्श्वनाथं तमहं नमामि ॥३॥ नागेन्द्रपद्मा तव पादपद्महत्पद्मगो यत्र भवत्यवश्यम् । लोकस्त्रिलोकी विजयाजयाद्याः, श्रीपार्श्वनाथं तमहं नमामि ॥४॥ अन्येऽपि विद्यामणिमन्त्रयन्त्रा जने मनोवाञ्छितसिद्धयश्च । यन्नाममन्त्रस्मृतिमात्रतोऽपि, श्रीपार्श्वनाथं तमहं नमामि ॥५॥ ॥ इति श्रीपार्श्वनाथस्तवनम् ॥२३॥ ॥ श्रीमहावीरस्तवः ॥२४॥ (उपजाति) किकिल्लिसत्पल्लवमण्डपान्तसिंहासनासीनमहीनभासम् । . छत्रत्रयीचामरचारुशोभं, धर्म दिशन्तं प्रणमामि वीरम् ॥१॥ ये देशनासद्मनि रत्नशालविशालशालासु सभासु भव्याः । . विलोकयन्ति स्म चतुर्मुख त्वां, नरामरा देव ! त एव धन्याः ॥२॥ . द्वितीयशाले मिलितास्तिरश्चां गणा कणेहत्य तवैकवाणीम् । पपुः परां ये परिमुक्तवैरास्ते श्लाघनीया न जिनेश ! कस्य ? ॥३॥ शाले तृतीये तव शालनाट्यशालासु नाट्यानि मनोहराणि । विस्तारयन्तस्तव देव ! सेवाहेवाकिनो नाकिनरोऽपि धन्याः ॥४॥ इति त्रिशालस्थितितोरणादिशोभाद्भुतं सद्म सुदेशनाय । आलोकि लोकैस्तव यैर्जिनेन्द्र ! तेषां कृतार्थी च विलोकनश्रीः ।।५।। ॥ इति श्रीमहावीरस्तवः ॥२४॥ ॥ इति चतुर्विंशतिजिनानां स्तवनानि पूर्णानि ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy