Book Title: Sambodhi 2001 Vol 24
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 120
________________ Vol. XXIV. 2001 । मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥ 115 ॥ श्रीनमिनाथस्तवनम् ॥२१॥ (उपजाति) नम्राऽखिलाऽऽखण्डलमौलिमाला ववे सहसावलिसङ्गचङ्गम् । पदाम्बुजं श्रीनमिनाथतीर्थेश(शि)तुः स्तुवे सत्त्वगुणाढ्यलाभम् ॥१॥ शक्तः क्षमावान् धनवानुदारो विभुर्विवेकी गुणवानगर्वः परोपकारी च सुधीर्नरः स्यात् तवोदितात् त(स)त्वगुणाज्जिनेश ! ॥२॥ भोगाङ्गसङ्गोल्लसिनाभिमानस्त्रिवर्गसंसाधनसावधानः । यद्विभ्रमां भ्रान्तिमना जनः स्याद्, रजःस्वभावां तदुदाहरस्त्वम् ॥३॥ तवागमे सत्यपि यजनोऽयं नारीधनादावतिलुम्बचेताः । सदा परद्रोहपरायणः स्यात्, तत्तामसत्वं प्रथयन्ति सन्तः ॥४॥ नमे ! तव ध्यानदिवाकरो मे रजस्तमस्तोममपास्य दूरात् ।। उल्लासयत्युत्तमसत्त्वपऱ्या यथा तथा नाथ ! मयि प्रसीद ॥५॥ ॥ इति श्रीनमिनाथस्तवनम् ॥२१॥ ॥ श्रीअरिष्टनेमिस्तवनम् ॥२२॥ (उपजाति) यस्योज्जयन्तावपि चूलिकायां कल्याणकानां त्रितयं बभूव । श्रीयादवानन्दकरं जिनेन्द्रमभिष्ट वेऽहं तमरिष्टनेमिस् ॥१॥ भवान् विभो ! रैवतकेऽत्र शैले राजीमती राज्यमतिं च मुक्त्वा। आबालकालादपि शुद्धशीलो जग्राह दीक्षां शिवदानदक्षाम् ॥२॥ तां क्षायिकी श्रेणिमवाप्य शुक्लध्यानान्तराले हतघातिकर्मा । लेभे भवानत्र गिरौ गरीष्ठे सत्केवलज्ञानमपि प्रधानम् ॥३॥ इहैव शैलेऽनशितो हि मासं कृत्वा समुद्धातनयोगतां च । कर्मांशमुक्तः समयेन सिद्धिं नित्यां सदानन्दमयीमितोऽसि ॥४॥ इत्थं गिरौ यो गिरनारनाम्नि कल्याणकानां त्रितयं ततान । देवः स रत्नत्रयदानपूर्व संघस्य शस्यास्पदसम्पदेऽस्तु ॥५॥ ॥ इति श्रीअरिष्टनेमिस्तवनम् ॥२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162