Book Title: Sambodhi 2001 Vol 24
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 110
________________ Vol. XXIV. 2001 ॥ मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥ 105 ॥ मुनिश्रीकीर्तिमेरविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥ ॥ श्रीयुगादिस्तवः ॥१॥ (उपजाति) अर्हन्तमादीश्वरमादिबुद्धं श्रियःपतिं नाभिभवं भवन्तम् । यमेकमप्येवमनेकरूपं ध्यायन्ति लोकास्तमहं स्तवीमि ॥१॥ स्वभावभावागतयोगसिद्धे ! ताः सिद्धयोऽष्टावपि सुप्रसिद्धाः । सत्प्रातिहार्यर्द्धिमिषेण देव ! सेवां वितन्वन्ति तवैव नित्यम् ॥२॥ सर्वज्ञ ! सर्वातिशयैकसद्म ! निश्छद्म ! पद्मासनसन्निविष्टम् । युगादियोगीश्वर ! योगिनस्त्वां विलोकयन्तः कलयन्ति योगम् ॥३॥ अोन्मिषत्तारमपारशान्तरसैकपूर्ण नयनद्वयं ते । निरीक्ष्य योगस्य रहस्यमेतच्चेच्छिष्यते शिष्यलवैस्तवैव ॥४॥ रागादिदोषाङ्कविमुक्तमौदासीन्यप्रसन्नास्यमृजुश्लथाङ्गम् । निसर्गसिद्धाद्भुतयोगमेकं त्वामेव देवं शरणं श्रितोऽस्मि ॥५॥ ॥ इति श्रीयुगादिस्तवः ॥१॥ (उपजाति) ॥ श्रीअजितनाथस्तवनम् ॥२॥ बाह्यान्तरङ्गारिजयं विधाय यश्चक्रे पितुः स्वस्य (च) नाम सार्थकम् । तं तीर्थनाथं जितशत्रुनन्दनं भक्त्याऽजितं योगिगुरुं स्तवीम्यहम् ॥१॥ ये जन्तवो देव ! तव प्रसादतो लब्ध्वाऽऽत्मलाभं विरतिं प्रपद्य च।। शान्ताः सदैकान्तनिवाससेविनः प्रारम्भका योगविधेर्भवन्ति ते ॥२॥ क्षुत्तर्षनिद्रेन्दियमारुतासनाभ्यासेन चिद्रूपनिरूपणोद्यताः । त्वां प्राप्य नाथं स्वयमेव हेलया तन्निष्ठिता योगमयन्ति योगिनः ॥३॥ यन्मानसे ध्वस्तसमस्तकल्पनावीचीचये शुद्धसमाधिपङ्कजे । त्वं हंसवत् स्वच्छतमे निलीयसे निष्पन्नयोगाः स्युरतो निलीयसे ॥४॥ इत्थं त्रिभेदक्रमयोगसाधनं कुर्वन्ति ये देव ! तवोपदेशतः ! तेषां न दूरेऽखिललब्धिशालितं श्रीवैजयेयाऽजित ! तावकं पदम् ।।५।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162