________________
Vol. XXIV. 2001 ॥ मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥ 105 ॥ मुनिश्रीकीर्तिमेरविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥
॥ श्रीयुगादिस्तवः ॥१॥ (उपजाति) अर्हन्तमादीश्वरमादिबुद्धं श्रियःपतिं नाभिभवं भवन्तम् । यमेकमप्येवमनेकरूपं ध्यायन्ति लोकास्तमहं स्तवीमि ॥१॥ स्वभावभावागतयोगसिद्धे ! ताः सिद्धयोऽष्टावपि सुप्रसिद्धाः । सत्प्रातिहार्यर्द्धिमिषेण देव ! सेवां वितन्वन्ति तवैव नित्यम् ॥२॥ सर्वज्ञ ! सर्वातिशयैकसद्म ! निश्छद्म ! पद्मासनसन्निविष्टम् । युगादियोगीश्वर ! योगिनस्त्वां विलोकयन्तः कलयन्ति योगम् ॥३॥ अोन्मिषत्तारमपारशान्तरसैकपूर्ण नयनद्वयं ते । निरीक्ष्य योगस्य रहस्यमेतच्चेच्छिष्यते शिष्यलवैस्तवैव ॥४॥ रागादिदोषाङ्कविमुक्तमौदासीन्यप्रसन्नास्यमृजुश्लथाङ्गम् । निसर्गसिद्धाद्भुतयोगमेकं त्वामेव देवं शरणं श्रितोऽस्मि ॥५॥
॥ इति श्रीयुगादिस्तवः ॥१॥ (उपजाति)
॥ श्रीअजितनाथस्तवनम् ॥२॥ बाह्यान्तरङ्गारिजयं विधाय यश्चक्रे पितुः स्वस्य (च) नाम सार्थकम् । तं तीर्थनाथं जितशत्रुनन्दनं भक्त्याऽजितं योगिगुरुं स्तवीम्यहम् ॥१॥ ये जन्तवो देव ! तव प्रसादतो लब्ध्वाऽऽत्मलाभं विरतिं प्रपद्य च।। शान्ताः सदैकान्तनिवाससेविनः प्रारम्भका योगविधेर्भवन्ति ते ॥२॥ क्षुत्तर्षनिद्रेन्दियमारुतासनाभ्यासेन चिद्रूपनिरूपणोद्यताः । त्वां प्राप्य नाथं स्वयमेव हेलया तन्निष्ठिता योगमयन्ति योगिनः ॥३॥ यन्मानसे ध्वस्तसमस्तकल्पनावीचीचये शुद्धसमाधिपङ्कजे । त्वं हंसवत् स्वच्छतमे निलीयसे निष्पन्नयोगाः स्युरतो निलीयसे ॥४॥ इत्थं त्रिभेदक्रमयोगसाधनं कुर्वन्ति ये देव ! तवोपदेशतः ! तेषां न दूरेऽखिललब्धिशालितं श्रीवैजयेयाऽजित ! तावकं पदम् ।।५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org