SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 106 SAMBODHI संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा. ॥ इति श्रीअजितनाथस्तवनम् ॥२॥ ॥ श्रीसम्भवनाथस्तवनम् ॥३॥ (द्रुतबिलम्बित) नतपुरन्दरको सुमशेखरक्षरदमन्दमरन्दमनोहरम् । पदपयोजयुगं तव सम्भव ! प्रहतमोहतमोऽहमभिष्टुवे ॥१॥ विमलकेवलसम्भव ! सम्भवाभिधविभो ! त्वदनुग्रहशालिनाम् । विशदबोधमयी तव देशना वरमते ! रमते मतिरङ्गिनाम् ॥२॥ असुमतां जगदीश ! परस्परानुगनयावलिशालिनि शासने । त्वदनुभावत एव रुचिः शुचिः शुभवतां भवतान्तिहरी भवेत् ॥३॥ तव जिनेश ! सुरेश्वरसेविता सुरमणीवदियं चरणद्वयी ।। परितुतोष नयेषु जनेषु तैः सचरणा चरणा कथमाप्यते ? ॥४॥ इति विबोधसुदृक् चरणात्मकं सुगतिमार्गमवाप्य तवोदितम् । शिवपदं सुखदं समवाप यो जिनपते ! न पतेत् पुनरप्यसौ ॥५॥ ॥ इति श्रीसम्भवनाथस्तवनम् ॥३॥ . ॥ श्रीअमिनन्दननाथस्तवनम् ॥४॥ (वैतालिक) येन बन्धुजनतापि समस्याऽकारि जन्मनि सुखैः प्रतिहस्ता । तं त्रिसन्ध्यमभिनन्दननाथं सम्प्रणौमि विनतामरनाथम् ॥१॥ प्रातरेव तव देव ! मुदाऽरं यो हि पश्यति मुखाब्जमुदारम् । दर्शनं न खलु दुर्लभमस्य ब्रह्मणोऽपि नियतं परमस्य ॥२॥ पूज्यसेऽर्धदिन एव सदैव स्तूयसे च जिन ! येन स एव । पूज्यते प्रतिदिनं सुरसार्थैः स्तूयते च वचनैर्गुरुसाथैः ॥३॥ एककाऽपि तव पूजनवन्ध्या यस्य याति जिन ! नान्तिमसन्ध्या । तत्कृतस्य सुकृतस्य न संख्यामीशते गणयितुं गुरुमुख्याः ॥४॥ एवमेनमभिनन्दनदेवं यस्त्रिसन्ध्यममरैः कृतसेवम् । वीक्षतेऽर्चति च चेतसि धत्ते तस्य भक्तिमिह को न विधत्ते ? ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy