SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Vol.XXIV,2001 ॥ मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ।। 107 107 ॥ इति श्रीअभिनन्दननाथस्तवनम् ॥४॥ ॥ श्रीसुमतिनाथस्तवनम् ॥५॥ (उपजाति) मेघभूपकुलदीपमुज्ज्वलं मङ्गलाङ्कगगनार्क मण्डलम् । पञ्चमं सुमतिनामतीर्थपं संस्तुवे त्रिविधबोधदेशकम् ॥१॥ येन्द्रियाधिकतया विशेषतोऽनेकधोल्लसति बुद्धिरङ्गिनाम् । सैव देव ! तव सेवकर्षिभिर्भाष्यते प्रथमबोधनामत: ॥२॥ तीर्थनाथ ! तव भाषितागमप्रोक्ततत्त्वपरमार्थबोधतः । ज्ञाननामकममे यमुज्ज्वलं बोधमाहुरपरं महर्षयः ॥३॥ आगमार्थमवगम्य निश्चितं ज्ञाततत्त्वपरिशीलनस्पृशाम् । त्वत्प्रणीतपथचारिणामसम्मोहबोधमयतैव जायते ॥४॥ आद्यबोधमिह तारतम्यतः पूर्वमापममप्यने कशः । साम्प्रतं तु सुमते ! तथा कुरु स्यां यथा त्रिविधबोधवानलम् ॥५॥ ॥ इति श्रीसुमतिनाथस्तवनम् ॥५॥ ॥ श्रीपद्मप्रभनाथस्तवनम् ॥ उपजाति ॥ वैराग्यपूरेण मनोनिशान्ताद् रागस्त्रिरूपोऽपि बहिर्निरस्तः । यं सेवते कान्तिमिषेण देवं पद्मप्रभं तं प्रयतः प्रणौमि ॥१॥ हारिद्ररागेण समो जनानां मायांसुकात् स्नेहमयोपरागः । त्वद्ध्यानसूर्यातपसम्भवोड्डी, क्षणात् समुड्डीयत एव देव ! ॥२॥ कौशुम्भरागोपमकामरागो, देदीप्यते लोकमनःपटेषु । तावद् विभो ! त्वन्महिमाम्बुपूरैः प्रक्षाल्यते देव ! न यावदेव ॥३॥ ताम्बूलरागप्रतिमोऽपि दृष्टे रागो मनश्चेलमितोऽतिगाढम् । प्राप्तत्वदुक्तागममातुलिङ्गरसैन कैस्कैरपनीयते स्म ॥४॥ एवं त्रिभेदोऽपि जिनेन्द्रपद्मप्रभप्रभो ! रागविशेष एषः । नर्ते प्रसत्तिं तव जीयते (?)त ततो द्रुतं देव ! मयि प्रसीद ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy