________________
108
संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा.
SAMBODHI
॥ इति श्रीपद्मप्रभनाथस्तवनम् ॥६॥ ॥ श्रीसुपार्श्वनाथस्तवनम् ॥७॥ (उपजाति) जगत्प्रसिद्धेऽपि चतुःप्रकारे धर्मे सदा मुख्यतया प्रतीतम् । दानं त्रिधा शुद्धमदर्शि येन, तस्मै सुपार्थाय नमस्करोमि ॥१॥ निष्कारणं नि:स्पृहमेव दानं, यच्चेतसाऽऽनन्दमयात्मकेन । प्रदीयते तज्जिननाथ ! चित्तशुद्धं तवैवानुगतैरगादि ॥२॥ यन्मूलशुद्ध्युत्तरशुद्धिसारं, सद्वस्तु देशावसरोचितं च । वितीर्यते वित्तविशुद्धये तद् दानं त्वदुक्तार्थविदो वदन्ति ॥३॥ मूलोत्तरानेकगुणाय कोटिशुद्धाय सम्बन्धविवर्जिताय ।। यद्दीय(ते) तत् तव शासनज्ञाः सत्पात्रशुद्धं प्रवदन्ति दानम् !।४।। एवं ददुर्ये जिन ! चित्त-वित्त-पात्रैकशुद्धं जगतीह दानम् । सिद्धस्य बुद्धस्य निरञ्जनस्य सुपार्श्व ! पार्श्व तव ते लभन्ते ॥५॥
॥ इति श्रीसुपार्श्वनामस्तवनम् ॥ ॥ श्रीचन्द्रप्रभनाथस्तवनम् ॥८॥ (वसंततिलका) , सितध्यानगङ्गाजलक्षालितेव प्रलिप्तेव सच्छीलकप्पू(y)रपूरैः । शरच्चन्द्रवनिर्मला यस्य कान्तिः शरीरस्य चन्द्रप्रभं तं स्तुवे(ऽहम् ?) ॥१॥ स्वभावेन या निन्द्यकर्माऽप्रवृत्तिः, प्रवृत्तिश्च या शस्यकृत्येषु नित्यम् ।। सदाचारशीलं तदेतत् तवैव प्रसादेन सम्प्राप्यते भव्यजीवैः ॥२॥ महामोहभेदस्य वेदोदयस्यावकाशं मनोरोधतः सन्निरुद्धय । स्वयं धार्यते ब्रह्मचर्यं तदेतन्मतं सम्मतं ब्रह्मणि प्रस्थितानाम् ॥३॥ कृते योगिसंज्ञेन्द्रियाङ्गिक्षमादेरपि व्याप्तिजातं गुणश्रेणिभूपम् । त्वयाऽदायि शीलाङ्गशीलं मुनीनां रथीकृत्य मोक्षाध्वनि प्रस्थितानाम् ॥४॥ सुदृक्ष्वेकमाद्यं द्वयं संयतेषु, त्रयं चाप्रमत्तेषु जायेत यस्य । यथा तस्य शीलस्य लम्भो मम स्यात्तथा देव ! चन्द्रप्रभाशु प्रसीद ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org