________________
Vol. XXIV. 2001
। मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ।।
109
॥ इति श्रीचन्द्रप्रभनाथस्तवनम् ॥८॥ ॥ श्रीसुविधिनाथस्तवनम् ॥९॥ (उपजाति) सुग्रीवभूपालकुलावतंस !, रामाभिरामाङ्कसरोराजहंस ! । तपोऽग्निशुद्धार्जुननिर्मलाङ्गकान्ते ! प्रणामः सुविधे ! ऽस्तु तुभ्यम् ॥१॥ द्वाविंशतिख्यातपरीषहाणां देहेन सम्यग् सहनं यदेतत् । शारीरिकं नाम तपस्त्वमेव पुण्याय तीर्थेश्वर ! साध्ववादीः ॥२॥ यद्वाचनाद्युत्तमपञ्चभेदस्वाध्यायकर्म क्रियते मुनीन्द्रः । तद् वाग्मयं नाम तपोविशेषं, विशेषतः साधुतरं त्वमात्थ ॥३॥ यद्भावनासाम्यसमाधिसारं विधीयते ध्यानविधानमेव । तन्मानसं नाम तपः प्रधानतमं विदुर्देव ! तवागमज्ञाः ॥४॥ एवं तपःकर्मविशोधितात्मा त्वद्ध्यानलीनैक महाजिनेन्द्र ! । यथा भवामि प्रहतप्रमादं तथा प्रसादं सुविधे ! विधेहि ॥५॥
॥ इति श्रीसुविधिनाथस्तवनम् ॥९॥ ॥ श्रीशीतलनाथस्तवनम् ॥१०॥ (इन्द्रवज्रा) कुक्षौ स्थिते यत्र पितुः शरीराद्दाघज्वराति क्षणमात्रतोऽपि । माता करस्पर्शवशाज्जहार तं शीतलं नौमि विशुद्धभावम् ॥१॥ भव्याङ्गिनामेव तवोक्ततत्त्वे सम्यक्त्वलम्भावसरे रुचिर्या । जायेत मिथ्यात्वविघातिनीति ख्याता मुमुक्षुत्तमभेदिनी सा ॥२॥ आसन्ननिःश्रेयससङ्गमानां सदा त्वदाज्ञाश्रितमानसानाम् । या भावना प्रोल्लसति प्रमादविघातिनी (सा)प्रथिता प्रतीक्ष्या ॥३॥ अत्यांगभाजां क्षयकाध्वगानां त्वयि स्फुरद्ध्यानपरायणानाम् । आसन्नभावागतकेवलानां या भावना मोहविघातिनी सा ॥४॥ इत्थं स्वभक्तेषु जनेषु येन निर्वाप्य मोहोद्भवपापतापम् । उत्पादितं शान्तरसैकशैत्यं स शीतलस्तीर्थपतिः श्रियेऽस्तु ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org