________________
110
SAMBODHI
संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा.
॥ इति श्रीशीतलनाथस्तवनम् ॥१०॥ ॥ श्रीश्रेयांसनाथस्तवनम् ॥११॥ (वंशस्थ) भूनाथ-स्वर्णाथ-योगीन्द्रनाथा भक्त्या शक्त्या दर्शितोरुप्रभावाः। संसेवन्ते शासनं यस्य नित्यं, तं श्रेयांसं तीर्थनाथं स्तवीमि ॥१॥ राजा-ऽमात्य-श्रेष्ठिमुख्यैर्मनुष्यैः या ते यात्राद्युन्नतिः शासनस्य । तीर्थाधीशाद्यापि विस्तार्यते सा नैवान्यत्रालोक्यते लेशतोऽपि ॥२॥ सौधर्माद्या भावना व्यन्तराश्च ज्योतिष्का ये सदृशः सन्ति देवाः । तैः सर्वैस्ते शासनं सेव्यते यत्, तन्महात्म्यं वर्ण्यते केन सम्यक् ? ॥३॥ यद् योगीन्द्रस्त्वत्पदाम्भोजसेवाहेवाकोद्यल्लब्धिविद्याप्रदीपैः ।। नित्यं दीप्रै?तते शासनं तत्, किं क्वाप्यासीत् कापथध्वान्तगम्यम् ? ॥४॥ एवं मा नाकिनो योगिनो ये कुर्वन्त्युच्चैः शासनस्योन्न(ति) ते। श्रीश्रेयांस ! त्वत्प्रसादेन तेषां श्रेयःस्थानावाप्तिरस्त्येव हस्ते ॥५॥
॥ इति श्रीश्रेयांसनाथस्तवनम् ॥११॥
॥ श्रीवासुपूज्यस्तुतिः ॥१२॥ (उपजाति) संमदान्मिलितनाकनायकैः पूज्यते विकचचारुपङ्कजैः । यत् पदाम्बुजयुगं सदैव तं वासुपूज्यजिननायकं स्तुवे ॥१॥ पुष्प-धूप-जल-चारुन्दन-स्फारवस्त्र-मुकुटादिशोभया । पूज्यसे हि रुचिरांगपूजया, यैस्त एव सफलार्घपाणयः ॥२॥ अक्षता-ऽऽज्य-फल-दीप्रदीपया, त्वां महन्ति य इहाऽग्रपूजया । ते महर्द्धिसुखसम्पदः पुरः प्राप्नुवन्ति नियतं शरीरिणः ॥३॥ गीत-नृत्य-नुतिनादरूपयाऽऽराध्यसे त्वमिह भावपूजया । येन तत्फलमनन्तमुत्तमं, ज्ञायते न खलु केवलं विना ॥४॥ एवमुत्तमधिया त्रिभेदया पूजया त्वमिह येन पूज्यसे । वासुपूज्य ! जिननाथ ! पूज्यते स त्रिलोकपतिभिस्तु निश्चितम् ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org