SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Vol. XXIV, 2001 ॥ मुनिश्रीकीर्तिमेरुविरुचितानि चतुर्विंशतिजिनस्तवनानि ॥ ॥ इति श्रीवासुपूज्यस्तुतिः ॥ १२ ॥ ॥ श्रीविमलनाथस्तवनम् ||१३|| ( इन्द्रवज्रा ) धातुर्यथाग्नेः सिचयश्च नीरात्, शुद्धाञ्जनादक्ष मणिश्चशाणात् । ध्यानात्तथा यो विमलत्वमाप, तीर्थेश्वरं तं विमलं स्वीमि ॥१॥ गतार्तरौद्रं सि(श्रि ?)तधर्मशुक्लं, मग्नं सदा साम्यसुधैककुण्डे । त्वय्याविलीनं परमात्मरूपे, मनस्सतां निर्मलतामुपैति ॥२॥ षड्भिश्चतुर्भिः कुवचः - कुभाषादोषैश्च मुक्तं वचनं वदन्ति । हितं मितं देव ! तवानुगा यत् तदुच्यते वाग्मयनिर्मलत्वम् ॥३॥ हिंसादिदोषव्यसनो परोधयत्नात् क्रियारम्भविवर्जितेऽत्र । त्वदुक्तमार्गाचरणे गतानां सञ्जायते कायमलोपशामः ॥४॥ ध्यायन् स्तुवन्नेवमहं च नित्यं त्वामेव देवं विमलस्वरूपम् । मनोवचःकायविलक्षयेण, भव्यो जनो निर्मलतामुपैति ॥५॥ ॥ इति श्रीविमलनाथस्तवनम् ॥१३॥ Jain Education International ॥ श्रीअनन्तनाथस्तवनम् ||१४|| ( उपजाति) अनन्तदृग्ज्ञानसुखाऽऽत्मवीर्य मय स्वरूपपरमात्मरूपम् । ध्यायामि सङ्कल्पविकल्पशून्यमनन्तदेवं स्वहृदि स्फुरन्तम् ॥१॥ जघन्यमध्योत्तमभेदभिन्नं स्फुटं चतुः पल्यनिरूपणान्तम् । संख्यातसंज्ञं गणितं त्वमात्थ यथा तथाऽन्येऽल्पधियः किमाहुः ? || २ || त्रिधाप्यसंख्येयमिदं परीतयुक्त द्विरुक्तत्वनवप्रभेदम् । संवर्गणाजातमसंख्यभेदं यथा भवानाह तथा परे नः (नो ? ) ॥३॥ पूर्वोक्तरीत्यैव नवप्रभेदमनन्तमप्येतदनन्तभेदम् । प्रक्षेपसंवर्गविधिप्रवृद्धं, त्वमेव जानासि जिनेश ! सम्यग् ॥४॥ संख्यातराशिर्मनुजादिकेषु, राशिस्त्वसंख्यो विबुधादिकेषु । सिद्धादिषूक्तः स्वकनामराशिर्येन प्रणामोऽस्तु जिनाय तस्मै ॥५॥ For Personal & Private Use Only 111 www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy