________________
112
Jain Education International
संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा.
॥ इति श्री अनन्तनाथस्तवनम् ||१४|| ॥ श्रीधर्मनाथस्तवनम् ॥ १५ ॥ ( इन्द्रवज्रा ) यमेव चिन्तामणिबुद्धिराध्यः दुःखं समाराध्य सुखं लभन्ते । लोकास्तमेवैकमहाप्रभावं धर्मोपमं धर्मजिनं श्रयामि ||१|| मैत्री प्रधानं करुणानिधानं, प्रमोदतापूर्णमुपेक्षयाढ्यम् । मनो यदीयं भवति स्वभावात्, श्रीधर्म ! तच्चेतसि वर्तसे त्वम् ॥२॥ पिण्डे नियुक्तं च पदे प्रयुक्तं, रूपे स्थिरं सृष्टमतीतरूपम् । ध्यानं चतुर्धेति समस्ति यस्य, ध्याता स धर्मस्य विनिश्चयेन ॥३॥
आज्ञा-विपाय(क ?)श्च निपाकता च संस्थानता चेति चतुष्टयस्य । विचारणा चेतसि यस्य नित्यं स एव धर्मैकपरो नरः स्यात् ||४||
स्वशासने वा परशासने वा बालैश्च वृद्धैश्च बुधैश्च मूर्खेः । प्रगृह्यते यस्य सदैव नाम धर्मं तमेवाहमपि श्रितोऽस्मि ॥५॥ ॥ इति श्रीधर्मनाथस्तवनम् ||१५||
॥ श्रीशान्तिनाथस्तवनम् ॥ १६॥ ( उपजाति) सदा सुरालीभिरधिष्ठितेन यश्चक्ररत्नेन महाबलेन । जिगाय सर्वं नरनाथचक्रं, जीयात् स शान्तिर्जिनचक्रवर्ती ॥१॥ यः कालपाठाद्यरकात्मकेन संज्ञानचक्रेण महोर्मयेन । अज्ञानतावल्लिततिं लुलाव, जीयात् स शान्तिर्जिनचक्रवर्ती ॥२॥ निःशङ्कताद्यारकमण्डलेन चक्रेण यो दर्शननामकेन । ममाथ मिथ्यात्वमिहारिवारं, जीयात् स शान्तिर्जिनचक्रवर्ती ॥३॥ इर्या समित्यादिमयारकेण चारित्रचक्रेण सुदुर्धरेण । चिच्छेद यो मोहतरं महान्तं, जीयात् स शान्तिर्जिनचक्रवर्ती ॥४॥ यस्येति रत्नत्रयरूपचक्रत्रयात्मकं राजति धर्मचक्रम् | बाह्यान्तरङ्गारिजयैकहेतुर्जीयात् स शान्तिर्जिनचक्रवर्ती ॥५॥
For Personal & Private Use Only
SAMBODHI
www.jainelibrary.org