Book Title: Sambodhi 2001 Vol 24
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 113
________________ 108 संपादक : आचार्य विजय धर्मधुरंधरसूरिजी म.सा. SAMBODHI ॥ इति श्रीपद्मप्रभनाथस्तवनम् ॥६॥ ॥ श्रीसुपार्श्वनाथस्तवनम् ॥७॥ (उपजाति) जगत्प्रसिद्धेऽपि चतुःप्रकारे धर्मे सदा मुख्यतया प्रतीतम् । दानं त्रिधा शुद्धमदर्शि येन, तस्मै सुपार्थाय नमस्करोमि ॥१॥ निष्कारणं नि:स्पृहमेव दानं, यच्चेतसाऽऽनन्दमयात्मकेन । प्रदीयते तज्जिननाथ ! चित्तशुद्धं तवैवानुगतैरगादि ॥२॥ यन्मूलशुद्ध्युत्तरशुद्धिसारं, सद्वस्तु देशावसरोचितं च । वितीर्यते वित्तविशुद्धये तद् दानं त्वदुक्तार्थविदो वदन्ति ॥३॥ मूलोत्तरानेकगुणाय कोटिशुद्धाय सम्बन्धविवर्जिताय ।। यद्दीय(ते) तत् तव शासनज्ञाः सत्पात्रशुद्धं प्रवदन्ति दानम् !।४।। एवं ददुर्ये जिन ! चित्त-वित्त-पात्रैकशुद्धं जगतीह दानम् । सिद्धस्य बुद्धस्य निरञ्जनस्य सुपार्श्व ! पार्श्व तव ते लभन्ते ॥५॥ ॥ इति श्रीसुपार्श्वनामस्तवनम् ॥ ॥ श्रीचन्द्रप्रभनाथस्तवनम् ॥८॥ (वसंततिलका) , सितध्यानगङ्गाजलक्षालितेव प्रलिप्तेव सच्छीलकप्पू(y)रपूरैः । शरच्चन्द्रवनिर्मला यस्य कान्तिः शरीरस्य चन्द्रप्रभं तं स्तुवे(ऽहम् ?) ॥१॥ स्वभावेन या निन्द्यकर्माऽप्रवृत्तिः, प्रवृत्तिश्च या शस्यकृत्येषु नित्यम् ।। सदाचारशीलं तदेतत् तवैव प्रसादेन सम्प्राप्यते भव्यजीवैः ॥२॥ महामोहभेदस्य वेदोदयस्यावकाशं मनोरोधतः सन्निरुद्धय । स्वयं धार्यते ब्रह्मचर्यं तदेतन्मतं सम्मतं ब्रह्मणि प्रस्थितानाम् ॥३॥ कृते योगिसंज्ञेन्द्रियाङ्गिक्षमादेरपि व्याप्तिजातं गुणश्रेणिभूपम् । त्वयाऽदायि शीलाङ्गशीलं मुनीनां रथीकृत्य मोक्षाध्वनि प्रस्थितानाम् ॥४॥ सुदृक्ष्वेकमाद्यं द्वयं संयतेषु, त्रयं चाप्रमत्तेषु जायेत यस्य । यथा तस्य शीलस्य लम्भो मम स्यात्तथा देव ! चन्द्रप्रभाशु प्रसीद ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162